________________
है स्तीर्थकरा गणधराश्च, वक्ष्यते च-भंगिअसुतं गुणंतो वद्दति तिविहेवि झाणमिति गाथार्थः॥ १४७० ॥ पराभ्युपगतध्या
नसाम्यप्रदर्शनेनानभ्युपगतयोरपि ध्यानतां प्रदर्शयन्नाह-'जइ एगग्गं' गाहा, हे आयुष्मन् ! यदप्येकाग्रं चित्तं क्वचिद्
वस्तुनि धारयतो वा स्थिरतया देहव्यापिविषवत् डंक इति 'निरंभओ वावित्ति निरुन्धानस्य वा तदपि योगनिरोध * इव केवलिनः किमित्याह-ध्यानं भवति मानसं यथा ननु तथा इतरयोरपि द्वयोर्वाक्काययोः, एवमेव-एकानधारणा|दिनैव प्रकारेण तल्लक्षणयोगाद् ध्यानं भवतीति गाथार्थः॥ १४७१ ॥ इत्थं त्रिविधे ध्याने सति यस्य यदोत्कटत्वं | तस्य तदेतरसद्भावेऽपि प्राधान्याद् व्यपदेश इति, लोकलोकोत्तरानुगतश्चायं न्यायो वर्तते, तथा चाह-'देसिय' गाहा, देशयतीति देशिकः-अग्रयायी देशिकेन दर्शितो मार्गः-पन्था यस्य स तथोच्यते वजन-गच्छन् नरपती-राजा लभते शब्द-प्राप्नोति शब्द, किंभूतमित्याह-'रायत्ति एस वच्चति' राजा एष व्रजतीति, न चासौ केवलः, प्रभूतलोकानुगतत्वात् , न च तदन्यव्यपदेशः, तेषामप्राधान्यात् , तथा चाह-'सेसा अणुगामिणो तस्स'त्ति शेषाः-अमात्यादयः अनुगामिनःअनुयातारस्तस्य-राज्ञ इत्यतःप्राधान्याद्राजेतिव्यपदेश इति गाथार्थः॥१४७२॥ अयं लोकानुगतो न्यायः, अयं पुनर्लोकोत्तरानुगतः-'पढमिल्लु' प्रथम एव प्रथमिल्लुकः, प्राथम्यं चास्य सम्यग्दर्शनाख्यप्रथमगुणघातित्वात् तस्य प्रथमिल्लुकस्य उदये,कस्य?, क्रोधस्य अनन्तानुबन्धिन इत्यर्थः 'इतरेवि तिण्णि तत्थत्थि' शेषा अपि त्रयः-अप्रत्याख्यानप्रत्याख्यानावरणसञ्चलनादयस्तत्र-जीवद्रव्ये सन्ति, न चातीताद्यपेक्षया तत्सद्भावः प्रतिपाद्यते, यत आह-नय तेण संतितहियं न च ते-अप्रत्याख्यानप्रत्याख्यानावरणादयो न सन्ति, किंतु सन्त्येव, न च प्राधान्यं तेषामतो न व्यपदेशः, आद्यस्यैव व्यपदेशः,
For Personal & Private Use Only
M
anelibrary.org