________________
आवश्यकहारिभद्रीया
कायोत्सर्ग निक्षेपः
॥७७४॥
न भवति जिणदिडं झाणं तिविहेवि जोगमि' तदेतन भवति यत् परेणाभ्यधायि, कुतः, यस्माजि- 8 नदृष्टं ध्यानं त्रिविधेऽपि योगे-मनोवाक्कायव्यापारलक्षण इति गाथार्थः ॥ १४६७ ॥ किं तु ?, कस्यचित् कदाचित् प्राधान्यमाश्रित्य भेदेन व्यपदेशः प्रवर्तते, तथा चामुमेव न्यायं प्रदर्शयन्नाह-वायाईधाऊणं' वातादिधातूनां आदिशब्दात् पित्तश्लेष्मणोर्यो यदा भवत्युत्कट:-प्रचुरो धातुः कुपित इति स प्रोच्यते उत्कटत्वेन प्राधान्यात् , 'न य इतरे तत्थ दो नत्थिति न चेतरौ तत्र द्वौ न स्त इति गाथार्थः॥ १४६८ ॥ 'एमेव य जोगाणं' एवमेव च योगाना-मनोवाक्कायानां त्रयाणामपि यो यदा उत्कटो योगस्तस्य योगस्य तदा-तस्मिन् काले निर्देशः, 'इयरे तत्थेक्क दो व णवा' इतरस्तत्रैको भवति द्वौ वा भवतः, न वा भवत्येव, इयमत्र भावना-केवलिनः वाचि उत्कटायां कायोऽप्यस्ति अस्मदादीनां तु मनः कायो न वेति, केवलिनः शैलेश्यवस्थायां काययोगनिरोधकाले स एव केवल इति, अनेन च शुभयोगोत्कटत्वं तथा निरोधश्च द्वयमिति(मपि) ध्यानमित्यावेदितव्यमिति गाथार्थः॥१४६९॥इत्वं |य उत्कटो योगः तस्यैवेतरसद्भावेऽपिप्राधान्यात सामान्येन ध्यान त्वमभिधायाधुना विशेषेण त्रिप्रकारमप्युपदर्शयन्नाह'काएवि य' कायेऽपि च अध्यात्म अधि आत्मनि वर्तत इति अध्यात्म ध्यानमित्यर्थः, एकाग्रतया एजनादिनिरोधात् , 'वायाए'त्ति तथा वाचि अध्यात्म एकाग्रतयैवायतभाषानिरोधात् ,'मणस्स चेव जह होइ'त्तिमनसश्चैव यथा भवत्यध्यात्म एवं|8 कायेऽपि वाचि चेत्यर्थः, एवं भेदनाभिधायाधुनकादावपि दर्शयन्नाह-कायवाङमनोयुक्तं त्रिविधं अध्यात्ममाख्यातवन्त
७७४॥
SESOTESON
dain Education
For Personal & Private Use Only
elbrary.org