SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ -5251525 इहानप्रेक्षा ध्यानादौ ध्यानोपरमे भवतीतिकृत्वा भेदेनोपन्यस्तेति गाथार्थः॥१४६२ ॥ इह ध्यायति च शुभं ध्यानमित्युक्तं, तत्र किमिदं ध्यानमित्यत आह–'अंतोमुहुत्तकालं' द्विघटिको मुहूर्तः भिन्नो मुहूर्तोऽन्तर्मुहूर्त इत्युच्यते, अन्तर्मु. हर्तकालं चित्तस्यैकाग्रता भवति ध्यानं एकाग्रचित्तनिरोधो ध्यान'(तत्त्वार्थे अ० सूत्र ९२७) मितिकृत्वा, तत् पुनरात रौद्रं धर्म शुक्लं च ज्ञातव्यमित्येषां च स्वरूपं यथा प्रतिक्रमणाध्ययने प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः ॥१४६२-१४६३॥ 'तत्थ उ दो आइल्ला' गाथा निगदसिद्धा । साम्प्रतं यथाभूतो यत्र यथावस्थितो यच्च ध्यायति तदेतदभिधित्सुराह'संवरियासवदार'त्ति संवृतानि-स्थगितानि आश्रवद्वाराणि-प्राणातिपातादीनि येन स तथाविधः, क ध्यायति ?'अव्याबाधे अकंटए देसे'त्ति' अव्याबाधे-गान्धर्वादिलक्षणभावव्याबाधाविकले अकण्टके-पाषाणकण्टकादिद्रव्यकण्टकविकले 'देशे' भूभागे, कथं व्यवस्थितो ध्यायति ?-'काऊण थिरं ठाणं ठितो निसण्णो निवन्नो वा' कृत्वा स्थिरं-निष्कम्म [अव] स्थानं-अवस्थितिविशेषलक्षणं स्थितो निषण्णो निवण्णो वेति प्रकटार्थ, चेतनं-पुरुषादि अचेतनं-प्रतिमादि वस्तु अवलम्ब्य-विषयीकृत्त्वा(त्य) घनं-दृढं मनसा-अन्तःकरणेन यत् ध्यायति, किं ? तदाह-'झायति सुयमत्थं वा' ध्यायतीति सम्बध्यते, सूत्रं-गणधरादिभिर्बद्धं अर्थ वा-तद्गोचरं, किंभूतमर्थमत आह-'दवियं तप्पजवे वावि' द्रव्यं तत्पर्यायान् वा, इह च यदा सूत्रं ध्यायति तदा तदेव स्वगतधमैरालोचयति, न त्वर्थ, यदा त्वर्थ न तदा सूत्रमिति गाथार्थः ॥ १४६४-१४६६ ॥ अधुना प्रागुक्तचोद्यपरिहारायाह-तत्र भणेत्-ब्रूयात् कश्चित् , किं ब्रूयादित्याह-'झाणं जो माणसो परीणामो' ध्यानं यो मानसः परीणामः, 'ध्यै चिन्ताया'मित्यस्य चिन्तार्थत्वात् , इत्थमाशङ्कयोत्तरमाह-'तं -*- ASCA % dalt Educati o nal For Personal & Private Use Only Malinelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy