SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥७७२ ॥ 'अट्ठविपि य कम्' अष्टविधं - अष्टप्रकारमपि चशब्दो विशेषणार्थः तस्य च व्यवहितः सम्बन्धः, अट्ठविहंपि य कम्मं अरिभूतं च ततश्चायमर्थः - यस्मात् ज्ञानावरणीयादि अरिभूतं शत्रुभूतं वर्त्तते भवनिबन्धनत्वाच्चशब्दादचेतनं च तेन कारणेन तज्जयार्थ - कर्मजयनिमित्तं 'अब्भुट्टिया उत्ति आभिमुख्येन उत्थिता एव एकान्तगर्वविकला अपि तपो द्वादशप्रकारं संयमं च सप्तदशप्रकारं कुर्वन्ति निर्ग्रन्थाः - साधव इत्यतः कर्मक्षयार्थमेव तदभिभवनाय कायोत्सर्गः कार्य एवेति गाथार्थः ॥ १४५६ ॥ तथा चाह - तस्स कसाया इति 'तस्य' प्रक्रान्तशत्रुसैन्यस्य कषायाः प्रागनिरूपितशब्दार्थाश्चत्वारः क्रोधादयो नायकाः- प्रधानाः, 'काउस्सग्गमभग्गं करेंति तो तज्जयद्वाएत्ति काउस्सग्गंअभिभवकायोत्सर्ग अभग्नं- अपीडितं कुर्वन्ति साधवस्ततस्तज्जयार्थ - कर्मजयनिमित्तं तपःसंयमवदिति गाथार्थः ॥ १४५७ ॥ गतं मूलद्वारगाथायां विधानमार्गणाद्वारम् अधुना कालपरिमाणद्वारावसरः, तत्रेयं गाथा - संवत्सरमुत्कृष्टं कालप्रमाणं, तथा च बाहुबलिना संवत्सरं कायोत्सर्गः कृत इति, 'अन्तोमुहुत्तं च' अभिभवकायोत्सर्गे अन्त्यं - जघन्यं कालपरिमाणं, चेष्टाकायोत्सर्गस्य तु कालपरिमाणमनेकभेदभिन्नं 'उवरि वोच्छं 'ति उपरिष्टाद् वक्ष्याम इति गाथार्थः ॥ १४५८ ॥ उक्तं तावदोघतः कालपरिमाणद्वारं, अधुना भेदपरिमाणद्वारमधिकृत्याह - उसिउस्सिओ अ तह उस्सिओ अ उस्सियनिसन्नओ चेव । निसनुस्सिओ निसन्नो निस्सन्नगनि सन्नओ चेव १४५९ ॥ निवणुस्सिओ निवन्नो निवन्ननिवन्नगो अ नायव्वो । एएसिं तु पयाणं पत्तेय परूवणं वुच्छं ॥ १४६० ॥ | उस्सिनिसन्नग निवन्नगे य इक्किक्कगंमि उपयंमि । दव्वेण य भावेण य चउक्कभयणा उ कायव्वा ।। १४६१ ॥ Jain Education ronal For Personal & Private Use Only कायोत्सर्गनिक्षेपः ॥७७२ ॥ nelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy