SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Jain Education अट्ठविपि य कम्मं अरिभूयं तेण तज्जयट्ठाए । अब्भुट्टिया उ तवसंजमंमि कुव्वंति निग्गंथा ॥ १४५६ ।। तस्स कसाया चत्तारि नायगा कम्मसत्तुसिन्नस्स । काउस्सग्गमभग्गं करंति तो तज्जयट्ठाए । १४५७ ॥ संवच्छरमुकोसं अंतमुहुत्तं च (त) अभिभवुस्सग्गे । चिट्ठाउस्सग्गस्स उ कालपमाणं उवरि वुच्छं ॥ १४५८ ॥ 'इयरहवि ताण' इतरथापि - सामान्यकार्येऽपि तावत् क्वचिदनवस्थानादौ न युज्यतेऽभियोगः कस्यचित् कर्त्तुं, 'किं पुणाइ उस्सग्गे' किं पुनः कायोत्सर्गे कर्मक्षयाय क्रियमाणे?, स हि सुतरां गर्वरहितेन कार्यः, अभियोगश्च गर्यो वर्त्तते, नन्वित्यसूयायां गर्वेण - अभियोगेन परपुरं - शत्रुनगरमभिरुध्यते, यथा तद्गर्वकरणमसाधु एवमेतदपि कायोत्सर्गाभियोजनमशोभनमेवेति गाथार्थः ॥ एवं चोदकेनोक्ते सत्याहाचार्यः - ' मोहपयडीभयं' मोहप्रकृतौ भयं २ अथवा मोहप्रकृतिश्चासौ भयं चेति समासः, मोहनीय कर्मभेद इत्यर्थः, तथाहि - हास्यरत्यरतिभयशोकजुगुप्सापट्र्कं मोहनीयभेदतया प्रतीतं, तत् अभिभवतु अभिभूय यः कश्चित् करोति कायोत्सर्ग तुशब्दो विशेषणार्थः नान्यं कञ्चन बाह्यमभिभूयेति, 'भयकारणे तु तिविहे' बाह्ये भयकारणे त्रिविधे द्रव्यमनुष्य तिर्यगभेदभिन्ने सति तस्य नाभिभवः, अथेत्थंभूतोऽप्यभियोग इत्यत्रोच्यते- 'नेव पडिसेहो' इत्थंभूतस्याभियोगस्य नैव प्रतिषेध इति गाथार्थः ॥ १४५४॥ किन्तु - 'आगारेऊण परं' 'आगारेऊण'त्ति आकार्य रे रे क्व यास्यसि इदानीं एवं परम्-अन्यं कश्चन 'रणेब' संग्रामे इव यदि स कुर्यात् कायोत्सर्गे युज्येत अभिभवः, तदभावे - पराभिभवाभावेऽभिभवः कस्य ?, न कस्यचिदिति गाथार्थः ॥ १४५५ ॥ तत्रैतत् स्यात् भयमपि कर्माशो वर्त्तते, कर्मणोऽपि चाभिभवः खल्वेकान्तेन नैव कार्य इत्येतच्चायुक्तम्, यतः - onal For Personal & Private Use Only ainelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy