SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ अईयारविसुद्धं अणुव्वयगुणव्वयाई च अभिग्गहा अन्नेवि पडिमादओ विसेसकरणजोगा, अपच्छिमा मारणंतिया संलेहणाझुसणाराहणया, इमीए समणोवासएणं इमे पश्च०, तंजहा-इहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे ॥ १३ ॥ (सूत्रं) __ अत्र पुनः श्रमणोपासकधर्मे पुनःशब्दोऽवधारणार्थः, अत्रैव न शाक्यादिश्रमणोपासकधर्मे, सम्यक्त्वाभावेनाणुव्रताद्यभावादिति, वक्ष्यति च-'एत्थ पुण समणोवासगधम्मे मूलवत्थुसंमत्त'मित्यादि, पञ्चाणुव्रतानि प्रतिपादितस्वरूपाणि त्रीणि गुणव्रतानि उक्तलक्षणान्येव 'यावत्कथिकानी'ति सकृद्गृहीतानि यावज्जीवमपि भावनीयानि, चत्वारीति सङ्ख्या 'शिक्षा|पदव्रतानी'ति शिक्षा-अभ्यासस्तस्य पदानि-स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि, 'इत्वराणी'ति तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिके पुनः पुनरुच्चार्य इति भावना, पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयाविति । आह-अस्य श्रमणोपासकधर्मस्य किं पुनर्मूलवस्त्विति ?, अत्रोच्यते, सम्यक्त्वं, तथा चाह ग्रन्थकारः-'एतस्स पुणो समणोवासग' अस्य पुनः श्रमणोपासकधर्मस्य, पुनःशब्दोऽवधारणार्थः अस्यैव, शाक्यादिश्रमणोपासकधर्मे सम्यक्त्वाभावात् न मूलवस्तु सम्यक्त्वं, वसन्त्यस्मिन्नणुव्रतादयो गुणास्तद्भावभावित्वेनेति वस्तु मूलभूतं द्वारभूतं च तद् वस्तुच मूलवस्तु, तथा चोक्तम्-"द्वारं मूलं प्रतिष्ठानमाधारोभाजनं निधिः। द्विषट्कस्यास्य धर्मस्य, सम्यक्त्वं है परिकीर्तितम्॥१॥"सम्यक्त्वं-प्रशमादिलक्षणं, उक्तं च-"प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं सम्यक्त्व"(तत्त्वा० भाष्ये अ०१सू०२)मिति, कथं पुनरिदं भवत्यत आह-'तन्निसग्गेण 'तत्-वस्तुभूतं सम्यक्त्वं निसर्गेण वाऽधिगमेनवा भवतीति Jain Education a l For Personal & Private Use Only Klinelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy