________________
आवश्यकहारिभद्रीया
प्रत्याख्या नाध्य. श्रावकत्रताधि.
का
॥८३६॥
धम्म झाणं झायति, जधा एते साधुगुणा अहं असमत्थो मंदभग्गो धारेतुं विभासा । इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमित्यत आह-'पोसधोववासस्स समणों'०पोषधोपवासस्य निरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-अप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारौ, इह संस्तीयते यः प्रतिपन्नपोषधोपवासेन दर्भकुशकम्बलीवस्त्रादिः स संस्तारः शय्या प्रतीता प्रत्युपेक्षणं-गोचरापन्नस्य शय्यादेश्चक्षुषा निरीक्षणं न प्रत्युपेक्षणं अप्रत्युपेक्षणं दुष्टम्-उद्भ्रान्तचेतसा प्रत्युपेक्षणं दुष्प्रत्युपेक्षणं ततश्चाप्रत्युपेक्षितदुष्प्रत्युपेक्षितौ शय्यासंस्तारौ चेति समासः, शय्यैव वा संस्तारः शय्यासंस्तारः, इत्येवमन्यत्राक्षरगमनिका कार्येति, उपलक्षणं च शय्यासंस्ताराद्युपयोगिनः पीठ(फल)कादेरपि । एत्थे । पुण लामायारी-कडपोसधोणो अप्पडिलेहिया सजं दुरूहति, संथारगं वा दुरुहइ, पोसहसालं वा सेवइ, दम्भवत्थं वा सुद्धवत्थं वा भूमीए संथरति, काइयभूमितो वा आगतो पुणरवि पडिलेहति, अण्णधातियारो, एवं पीढगादिसुवि विभासा । तथा अप्रमार्जितदुष्प्रमार्जितशय्यासंस्तारौ, इह प्रमार्जनं-शव्यादेरासेवनकाले वस्त्रोपान्तादिनेति, दुष्टम्-अविधिना प्रमार्जनं शेषं भावितमेव, एवं उच्चारप्रश्रवणभूमावपि, उच्चारप्रश्रवणं निष्ठयूतखेलमलाद्युपलक्षणं, शेष भावितमेव । तथा पोषधस्य सम्यक्-प्रवचनोक्तेन विधिना निष्प्रकम्पेन चेतसा अननुपालनम्-अनासेवनम् । एत्थं भावना-कतपोसधो
॥८३६॥
धर्मध्यानं ध्यायति, यथा साधुगुणानेतानहं मन्दभाग्योऽसमर्थों धारयितुं विभाषा । २ अत्र पुनः सामाचारी-कृतपोषधो नाप्रतिलिख्य शय्यामारोहति संस्तारकं वारोहति पोषधशाला वा सेवते दर्भवस्त्रं वा शुद्धवस्त्रं वा भूमौ संस्तृणाति, कायिकीभूमित आगतो वा पुनरपि प्रतिलिखति, अन्यथाऽतिचारः, एवं पीठकादिष्वपि विभाषा । ३ अन्न भावना कृतपोषधो
Jain Education
For Personal & Private Use Only
htnelibrary.org