________________
आवश्यकहारिभ
६प्रत्याख्या नाध्य श्रावकत्र
द्रीया
ताधिक
॥८३३ ॥
MAGAR-64542
त्यत्र श्रमण इव चोक्तं न तु श्रमण एवेति यथा समुद्र इव तडागः न तु समुद्र एवेत्यभिप्रायः । तथोपपातो विशेषकः, साधुः सर्वार्थसिद्ध उत्पद्यते श्रावकस्त्वच्युते परमोपपातेन जघन्येन तु द्वावपि सौधर्म एवेति, तथा चोक्तं-"अविराधितसामण्णस्स साधुणो सावगस्स उ जहण्णो । सोधम्मे उववातो भणिओ तेलोकदंसीहिं ॥१॥” तथा स्थितिभैदिका, साधोरुत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि जघन्या तु पल्योपमपृथक्त्वमिति, श्रावकस्य तूत्कृष्टा द्वाविंशतिः सागरोपमाणि जघन्या तु पल्योपममिति । तथा गतिभैदिका, व्यवहारतः साधुः पञ्चस्वपि गच्छति, तथा च कुरटोत्कुरुटौ नरकं गतौ कुणालादृष्टान्तेनेति श्रूयते, श्रावकस्तु चतसृषु न सिद्धगताविति, अन्ये च व्याचक्षते-साधुः सुरगतौ मोक्षे च, श्रावकस्तु चतसृष्वपि। तथा कषायाश्च विशेषकाः, साधुः कषायोदयमाश्रित्य सञ्चलनापेक्षया चतुस्त्रिव्येककषायोदयवानकषायोऽपि भवति छद्मस्थवीतरागादिः, श्रावकस्तु द्वादशकषायोदयवान् अष्टकषायोदयवांश्च भवति, यदा द्वादशकपायवांस्तदाऽनन्तानुबन्धवर्जा गृह्यन्ते, एते चाविरतस्य विज्ञेया इति, यदा त्वष्टकषायोदयवान् तदाऽनन्तानुबन्धिअप्रत्याख्यानकषायवर्जा इति, एते च विरताविरतस्य। तथा बन्धश्च भेदकः, साधुर्मूलप्रकृत्यपेक्षया अष्टविधवन्धको वा सप्तविधबन्धको वा षविधबन्धको वा एकविधबन्धको वा, उक्तं च-"संत्तविधबंधगा हुंति पाणिणो आउवजगाणं तु । तह सुहमसंपरागा छबिहबंधा विणि| दिवा ॥१॥ मोहाउयवज्जाणं पगडीणं ते उ बंधगा भणिया। उवसंतखीणमोहा केवलिणो एगविधबंधा ॥२॥ ते पुण
॥८३३॥
अविराद्धश्रामण्यस्य साधोः श्रावकस्यापि जघन्यतः। सौधर्म उपपातो भणितत्रैलोक्यदर्शिभिः ॥१॥२ सप्तविधबन्धका भवन्ति प्राणिन आयुर्वर्जानां तु।। तथा सूक्ष्मसंपरायाः पडिधवन्धा विनिर्दिष्टाः ॥ १॥मोहायुर्वजांनां प्रकृतीनां ते तु बन्धका भणिताः । उपशान्तक्षीणमोही केवलिन एकविधबन्धकाः॥२॥ ते पुन
Jain Educatio
n
al
For Personal & Private Use Only
W
inelibrary.org