________________
पुप्फतंबोलपावारगमादी वोसिरति। एसा विधी सामाइयस्स। आह-सावद्ययोगपरिवर्जनादिरूपत्वात् सामायिकस्य कृतसामायिकःश्रावको वस्तुतः साधुरेव, स कस्माद् इत्वरं सर्वसावद्ययोगप्रत्याख्यानमेव न करोति त्रिविधं त्रिविधेनेति?, अत्रोच्यते, सामान्येन सर्वसावद्ययोगप्रत्याख्यानस्यागारिणोऽसम्भवादारम्भेष्वनुमतेरव्यवच्छिन्नत्वात्,कनकादिषु चाऽऽत्मीयपरिग्रहादनिवृत्तः, अन्यथा सामायिकोत्तरकालमपि तदग्रहणप्रसङ्गात् ,साधुश्रावकयोश्च प्रपञ्चेन भेदाभिधानात्। तथा चाहग्रन्थकारः
सिक्खा दुविधा गाहा, उववातठिती गती कसाया य । बंधता वेदेन्ता पडिवजाइक्कमे पंच ॥१॥ । इह शिक्षाकृतः साधुश्रावकयोमहान् विशेषः, सा च शिक्षा द्विधा-आसेवनाशिक्षा ग्रहणशिक्षा च, आसेवना-प्रत्युपेक्षणादिक्रियारूपा, शिक्षा-अभ्यासः, तत्रासेवनाशिक्षामधिकृत्य सम्पूर्णामेव चक्रवालसामाचारी सदा पालयति साधुः, श्रावकस्तु न तत्कालमपि सम्पूर्णामपरिज्ञानादसम्भवाच्च, ग्रहणशिक्षा पुनरधिकृत्य साधुः सूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रवचनमातर उत्कृष्टतस्तु बिन्दुसारपर्यन्तं गृह्णातीति, श्रावकस्तु सूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रवचनमातर उत्कृष्टतस्तु षड्जीवनिकायां यावदुभयतोऽर्थतस्तु पिण्डैषणां यावत् , नतु तामपिसूत्रतो निरवशेषामर्थत इति । सूत्रप्रामाण्याच्च विशेषः, तथा चोक्तम्-"सामाइयंमि तु कते समणो इव सावओ हवइ जम्हा । एतेण कारणेणं बहुसो सामाइयं कुज्जा॥१॥” इति, गाथासूत्रं प्राग् व्याख्यातमेव, लेशतस्तु व्याख्यायते-सामायिके प्रागनिरूपितशब्दार्थे, तुशब्दोऽवधारणार्थः, सामायिकएव कृते न शेषकालं श्रमण इव-साधुरिव श्रावको भवति यस्मात् , एतेन कारणेन बहुशः-अनेकशः सामायिकं कुर्यादि
३ पुष्पताम्बूलप्रावारकादि व्युत्सृजति, एष विधिः सामायिकस्य ।
Jan Education
For Personal & Private Use Only
belbrary.org