________________
दुसमयठितीयस्स बंधगा ण पुण संपरागस्स । सेलेसीपडिवण्णा अबंधगा होति विण्णेया ॥३॥" श्रावकस्तु अष्टविधबन्धको वा सप्तविधबन्धको वा । तथा वेदनाकृतो भेदः, साधुरष्टानां सप्तानां चतसृणां वा प्रकृतीनां वेदकः, श्रावकस्तु नियमादष्टानामिति । तथा प्रतिपत्तिकृतो विशेषः, साधुः पञ्च महाव्रतानि प्रतिपद्यते,श्रावकस्त्वेकमणुव्रतं द्वे त्रीणि चत्वारि पञ्च वा, अथवा साधुः सकृत् सामायिकं प्रतिपद्य सर्वकालं धारयति, श्रावकस्तु पुनः २ प्रतिपद्यत इति । तथाऽतिक्रमो विशेषकः, साधोरेकवतातिक्रमे पञ्चव्रतातिक्रमः, श्रावकस्य पुनरेकस्यैव, पाठान्तरं वा, किं च-इतरश्च सर्वशब्दं न प्रयुङ्क्ते, मा भूद्देशविरतेरप्यभाव इति, आह च-'सामाइयंमि उ कए' 'सबंति भाणिऊणं' गाहा, सर्वमित्यभिधाय-सर्वे सावधं योगं परित्यजामीत्यभिधाय विरतिः खलु यस्य 'सर्वा' निरवशेषा नास्ति, अनुमतेनित्यप्रवृत्तत्वादिति भावना, स एवंभूतः सर्वविरतिवादी 'चुक्कईत्ति भ्रश्यति देशविरतिं सर्वविरतिं च प्रत्यक्षमृषावादित्वादित्यभिप्रायः। पर्याप्त प्रसङ्गेन प्रकृतं प्रस्तुमः । इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमित्यत आह-'सामाइयस्स समणो' [गाहा], सामायिकस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-मनोदुष्प्रणिधानं, प्रणिधानं-प्रयोगः दुष्टं प्रणिधानं दुष्प्रणिधानं मनसो दुष्प्रणिधानं मनोदुष्प्रणिधानं, कृतसामायिकस्य गृहसत्केतिकर्तव्यतासुकृतदुष्कृतपरिचिन्तनमिति, उक्तं च-"सामाइयंति (तु)कातुं घरचिन्तं जो तु चिंतये सड्ढो । अट्टवसट्टमुवगतो निरत्थयं तस्स सामइयं ॥१॥
बिसमयस्थितिकस्य बन्धका न पुनः सांपरायिकस्य । शैलेशीप्रतिपन्ना अबन्धका भवन्ति विज्ञेया॥३॥२ सामायिक(तु) कृत्वा गृहचिन्तां (कार्य) यस्तु चिन्तयेच्छ्राद्धः । आर्तवशार्तमुपगतो निरर्थकं तस्य सामायिकम् ॥ १॥
CANCECARECASCAMGARANAS
Jain Education
Leal
For Personal & Private Use Only
AL
ainelibrary.org