SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ णाम विशेषा इत्यर्थः, यैः सम्यक्त्वमतिचरति, ज्ञातव्याः ज्ञपरिज्ञया न समाचरितव्याः, नासेव्या इति भावार्थः । तद्यथेत्युदाहरणप्रदर्शनार्थः, शङ्का काला विचिकित्सा परपाषण्डप्रशंसा परपाषण्डसंस्तवश्चेति, तत्र शङ्कनं शङ्का, भगवदहत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषु मतिदौर्बल्यात् सम्यगनवधार्यमाणेषु संशय इत्यर्थः, किमेवं स्यात् नैवमिति, संशयकरणं शङ्का, सा पुनर्दिभेदा-देशशङ्का सर्वशङ्का च, देशशङ्का देशविषया, यथा किमयमात्माऽसङ्ख्येयप्रदेशात्मकः स्यादथ निष्प्रदेशो निरवयवः स्यादिति, सर्वशङ्का पुनः सकलास्तिकायजात एव किमेवं नैवं स्यादिति । मिथ्यादर्शनं च त्रिविधम्-अभिगृहीतानभिगृहीतसंशयभेदात् , तत्र संशयो मिथ्यात्वमेव, यदाह-"पयमक्खरं च एक जो न रोएइ सुत्तनिदिडं। सेसं रोयंतोवि हु मिच्छद्दिडी मुणेयवो ॥१॥” तथा-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः।। मिथ्यादृष्टिः सूत्रं हि नःप्रमाणं जिनाज्ञा च(जिनाभिहितं)॥१॥ एकस्मिन्नप्यर्थे सन्दिग्धे प्रत्ययोऽर्हति हि नष्टः । मिथ्यात्वदर्शनं | तत्सचादिहेतुर्भवगतीनाम् ॥२॥” तस्मात् मुमुक्षुणा व्यपगतशङ्केन सता जिनवचनं सत्यमेव सामन्यतः प्रतिपत्तव्यं, संशयास्पदमपि सत्यं, सर्वज्ञाभिहितत्वात् , तदन्यपदार्थवत्, मतिदौर्बल्यादिदोषात्तु कात्स्येन सकलपदार्थस्वभावावधारणमशक्यं छद्मस्थेन, यदाह-"न हि नामानाभोग छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरण प्रकृति कर्म ॥१॥" इह चोदाहरणं-जो संकं करेइ सो विणस्सति, जहा सो पेज्जायओ, पेजाए मासा जे परिभज्जमाणा ते छूढा, अंधगारए | पदमक्षरं चैकं यो न रोचयति सूत्रनिर्दिष्टम् । शेषं रोचयन्नपि मिथ्यादृष्टिातव्यः ॥ १ ॥२ यः शङ्कां करोति स विनश्यति यथा स पेयापायी, पेयायां माषा ये परिमृज्यमानास्ते क्षिप्ताः, अन्धकारे Jain Educati o nal For Personal & Private Use Only nelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy