________________
व्याख्या-अक्षरार्थः सुगमः, भावार्थः कथानकादवसेयः, तच्चाधः कथितमेव, तत्र वैरस्वामिनमालम्बनं कुर्वाणा इदं नेक्षन्ते मन्दधियः, किमित्याह| ओहावणं परेसिं सतित्थउन्भावणं च वच्छल्लं । न गणंति गणेमाणा पुवुचियपुप्फमहिमं च ॥११८१॥ हा व्याख्या-'अपभ्राजनां' लाञ्छना 'परेषां' शाक्यादीनां स्वतीर्थोद्भावनां च दिव्यपूजाकरणेन तथा 'वात्सल्यं श्रावका- ६ णां, एतन्न गणयन्त्यालम्बनानि गणयन्तः सन्तः, तथा पूर्वावचितपुष्पमहिमानं च न गणयन्तीति-पूर्वावचितैः-प्राग्गृहीतैः
पुष्पैः-कुसुमैर्महिमा-यात्रा तामिति गाथार्थः॥११८१॥ चैत्यभक्तिद्वारं गतम् , अधुनाऽऽर्यिकालाभद्वारं, तत्रेयं गाथा| अजियलाभे गिद्धा सएण लाभेण जे असंतुट्टा। भिक्खायरियाभग्गा अनियपुत्तं ववइसंति ॥१९८२ ॥ | व्याख्या-आर्यिकाभ्यो लाभ आर्यिकालाभस्तस्मिन् 'गृद्धाः' आसक्ताः 'स्वकीयेन' आत्मीयेन लाभेन येऽसन्तुष्टा मन्दधर्माणः भिक्षाचर्यया भग्ना भिक्षाचर्याभग्नाः, भिक्षाटनेन निर्विण्णा इत्यर्थः, ते हि सुसाधुना चोदिताः सन्तोऽभक्ष्योऽयं तपस्विनामिति 'अन्निकापुत्रम्' आचार्य व्यपदिशन्त्यालम्बनत्वेनेति गाथार्थः ॥ ११८२ ॥ कथम् ?__ अन्नियपुत्तायरिओ भत्तं पाणं च पुप्फचूलाए । उवणीयं भुजंतो तेणेव भवेण अंतगडो ॥ १९८३ ॥
व्याख्या-अक्षरार्थो निगदसिद्धः,भावार्थः कथानकादवसेयः, तच्च योगसङ्ग्रहेषु वक्ष्यते। ते च मन्दमतय इदमालम्बनं कुर्वन्तः सन्तः इदमपरं नेक्षन्ते, किम् ?, अत आह| गयसीसगणं ओमे भिक्खायरियाअपचलं थेरं । न गणंति सहावि सढा अजियलाहं गवसंता ॥ ११८४॥