SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ * आवश्यकहारिभद्रीया ३ वन्दनाध्ययने सालम्बनसेवा ॥५३४॥ ESISTOSOS LOS व्याख्या-आलम्ब्यत इत्यालम्बनं-प्रपततां साधारणस्थानं तेनालम्बनेन 'केनचित्' अव्यवच्छित्त्यादिना ये प्राणिनः 'मन्य' इति एवमहं मन्ये 'संयमम्' उक्तलक्षणं 'प्रमादयन्ति' परित्यजन्ति, 'न हुतं होइ पमाणं' नैव तदालम्बनमात्र भवति प्रमाणम्-आदेयं, किन्तु ? 'भूतार्थगवेषणं कुर्यात्' तत्त्वार्थान्वेषणं कुर्यात्-किमिदं पुष्टमालम्बनम् ? आहोस्विन्नेति, यद्यपुष्टमविशुद्धचरणा एव ते, अथ पुष्टं विशुद्धचरणा इति गाथार्थः ॥ ११७१ ॥ अपरस्त्वाह-आलम्बनात्को विशेष उपजायते ? येन विशुद्धचरणा भवन्तीति, अत्र दृष्टान्तमाह सालंबणो पडतो अप्पाणं दुग्गमेऽवि धारेइ । इय सालंबणसेवा धारेइ जई असढभावं ॥ ११७२॥ __ व्याख्या-इहालम्बनं द्विविधं भवति-द्रव्यालम्बनं भावालम्बनं च, द्रव्यालम्बनं गर्तादौ प्रपतता यदालम्ब्यते द्रव्यं, तदपि द्विविधम्-पुष्टमपुष्टं च, तत्रापुष्टं दुर्बलं कुशवच्चकादि, पुष्टं तु बलवत्कठिनवल्यादि, भावालम्बनमपि पुष्टापुष्टभेदेन द्विधैव, तत्रापुष्टं ज्ञानाद्यपकारक, तद्विपरीतं तु पुष्टमिति, तच्चेदं-'कहिं अछित्तिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं । गणं वणीईई व हु सारविस्सं, सालंबसेवी समुवेइ मुक्खं ॥१॥" तदेवं व्यवस्थिते सति सहालम्बनेन वर्तत इति सालम्बनः, असौ पतन्नपि आत्मानं 'दुर्गमेऽपि' गर्तादौ धारयति, पुष्टालम्बनप्रभावादिति, 'इय' एवं सेवन सेवा प्रतिसेवनेत्यर्थः, सालम्बना चासौ सेवा च सालम्बनसेवा सा संसारगते प्रपतन्तं धारयति यतिमशठभावं-मातृस्थानरहितमित्येष गुण इति गाथार्थः ॥ ११७२ ॥ साम्प्रतं सिसाधयिषितार्थव्यतिरेकं दर्शयन्नाह , करिष्याम्यव्युच्छित्तिमथवाऽध्येष्ये तपउपधानयोरुद्यस्यामि । गणं वा नीत्यैव सारयिष्यामि सालम्बसेवी समुपैति मोक्षम् ॥ १॥ ॥५३४॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy