________________
उज्जममाणस्स गुणा जह हुंति ससत्तिओ तवसुएसुं। एमेव जहासत्ती संजममाणे कहं न गुणा १ ॥ ११६८ ॥ व्याख्या–‘उज्जममाणस्स' त्ति उद्यच्छतः - उद्यमं कुर्वतः साधोः, क्व ? - तपः श्रुतयोरिति योगः, 'गुणाः' तपोज्ञानावाप्ति| निर्जरादयो यथा भवन्ति 'स्वशक्तितः' स्वशक्त्योद्यच्छतः, एवमेव 'यथाशक्ति' शक्त्यनुरूपमित्यर्थः, 'संजममाणे कहं न गुण ति संयच्छमाने - संयमं पृथिव्यादिसंरक्षणादिलक्षणं कुर्वति सति साधौ कथं न गुणाः ?, गुणा एवेत्यर्थः, अथवा कथं न गुणा येनाविकलसंयमानुष्ठानरहितो विराधकः प्रतिपद्यत इति ?, अत्रोच्यते
अणिगृहंतो विरियं न विराहेइ चरणं तवसुएसुं । जइ संजमेऽवि विरियं न निगूहिज्जा न हाविज्जा ।। ११६९ ॥
व्याख्या – 'अनिगूहन् वीर्य' प्रकटयन् सामर्थ्यं यथाशक्त्या, क्व ? - तपःश्रुतयोरिति योगः, किं ? 'न विराधयति चरणं' न खण्डयति चारित्रं ?, यदि 'संयमेऽपि' पृथिव्यादिसंरक्षणादिलक्षणे 'वीर्य' सामर्थ्यमुपयोगादिरूपतया 'न निगूहयेत्' न प्रच्छादयेन्मातृस्थानेन 'न हाविज'त्ति ततो न हापयेत् संयमं न खण्डेत्, स्यादेव संयमगुणा इति गाथार्थः ॥ ११६९ ॥ संजमजोएस सया जे पुण संतविरियावि सीयंति । कह ते विसुद्धचरणा बाहिरकरणालसा हुंति ? ॥ ११७० ॥
व्याख्या - 'संयमयोगेषु' पृथिव्यादिसंरक्षणादिव्यापारेषु 'सदा' सर्वकालं ये पुनः प्राणिनः 'संतविरियावि सीयंति' त्ति वि द्यमानसामर्थ्या अपि नोत्सहन्ते, कथं ते विशुद्धचरणा भवन्तीति योगः ?, नैवेत्यर्थः, बाह्यकरणालसाः सन्तः - प्रत्युपेक्षणादिबाह्यचेष्टारहिता इति गाथार्थः॥ ११७० ॥ आह - ये पुनरालम्बनमाश्रित्य बाह्यकरणालसा भवन्ति तेषु का वार्तेति ?, उच्यते - आलंबणेण केणइ जे मन्ने संयमं पमायंति । न हु तं होइ पमाणं भूयत्थगवेसणं कुज्जा ॥ ११७१ ॥