________________
SOSIASHARA
जिणवयणवाहिरा भावणाहिं उव्वदृणं अयाणंता । नेरइयतिरियएगिदिएहि जह सिज्झई जीवो ॥११६३ ॥ ___ व्याख्या-जिनवचनबाह्या' यथावस्थितागमपरिज्ञानरहिताः प्रत्येकं ज्ञानदर्शननयावलम्बिनः 'भावणाहिति उक्तेन न्यायेन ज्ञानदर्शनभावनाभ्यां सकाशात् , मोक्षमिच्छन्तीति वाक्यशेषः, 'उद्वर्तनामजानाना' नारकतिर्यगेकेन्द्रियेभ्यो यथा सिद्ध्यति जीवस्तथोद्वर्तनामजानाना इति योगः, इयमत्र भावना-ज्ञानदर्शनभावेऽपि न नारकादिभ्योऽनन्तरं मनुष्यभावमप्राप्य सिद्ध्यति कश्चित् , चरणाभावात् , तेनानयोः केवलयोरहेतुत्वं मोक्ष प्रति, तेभ्य एवैकेन्द्रियेभ्यश्च ज्ञानादिरहितेभ्योऽप्युद्वत्ता मनुष्यत्वमपि प्राप्य चारित्रपरिणामयुक्त एव सिद्ध्यति, नायुक्तोऽकर्मभूमिकादिः, अत इयमुद्वर्तना कार
णवैकल्यं सूचयतीति गाथार्थः ॥ ११६३ ॥ पुनरपि चारित्रपक्षमेव समर्थयन्नाहBI सुझुवि सम्मद्दिही न सिज्झई चरणकरणपरिहीणो । जं चेव सिद्धिमूलं मूढो तं चेव नासेइ ॥ ११६४ ॥ ___ व्याख्या-'सुष्ठपि' अतिशयेनापि सम्यग्दृष्टिर्न सिद्ध्यति, किम्भूतः १-चरणकरणपरिहीणः, तद्वादमेव च समर्थयन् , किमिति ?-'यदेव सिद्धिमूलं' यदेव मोक्षकारणं सम्यक्त्वं मूढस्तदेव नाशयति, केवलतद्वादसमर्थनेन, 'एकंपि असद्दहंतो मिच्छति वचनात् , अथवा सुष्ठपि सम्यग्दृष्टिः क्षायिकसम्यग्दृष्टिरपीत्यर्थः, न सिद्ध्यति चरणकरणपरिहीणा, श्रेणिकादिवत् , किमिति ?-यदेव सिद्धिमूलं-चरणकरणं मूढस्तदेव नाशयत्यनासेवनयेति गाथार्थः ॥ ११६४ ॥ किं च-अयं डू केवलदर्शनपक्षो न भवत्येवागमविदः सुसाधोः, कस्य तर्हि भवति ?, अत आह
दसणपक्खो सावय चरित्तभडे य मंदधम्मे य । दसणचरित्तपक्खो समणे परलोगकंखिम्मि ॥११६५॥
मनष्यत्वमपि प्राप्णभावात् , तेनानयामक भावना ज्ञानदर्शवतनामजानाना नविनः भावणाहिति २०