SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ WALISISSA SISSA चापि प्रज्ञप्तिधरः' न चापि भगवतीवेत्ता 'न वाचकः' न पूर्वधरः, तथाऽप्यसावसहायदर्शनप्रभावादेव 'आगमिस्साए'त्ति आयत्यामागामिनि काले 'जिनो भविष्यति' तीर्थकरो भविष्यति, यतश्चैवमतः 'समीक्ष्य' दृष्टा 'प्रज्ञया' बुझ्या दर्शनविपाक तीर्थकराख्यफलप्रसाधकं वरं खुदसण'न्ति खुशब्दस्यावधारणार्थत्वात् वरं दर्शनमेवाङ्गीकृतमिति वाक्यशेषः, अयं वृत्तार्थः ॥११५८॥ किंच-शक्य एवोपाये प्रेक्षावतःप्रवृत्तियुज्यते, न पुनरशक्ये शिरःशूलशमनाय तक्षकफणालङ्कारग्रहणकल्पे चारित्रे, चारित्रं च तत्त्वतः मोक्षोपायत्वे सत्यप्यशक्यासेवनं, सूक्ष्मापराधेऽपि अनुपयुक्तगमनागमनादिभिर्विराध्यमानत्वादायासरूपत्वाच्च, नियमेन च छद्मस्थस्य तद्भश उपजायते सर्वस्यैवातः भट्टेण चरित्ताओ सुट्टयरं दंसणं गहेयव्वं । सिझंति चरणरहिया दंसणरहिया न सिज्झंति ॥११५९ ॥ व्याख्या-'भ्रष्टेन' च्युतेन, कुतः १-चारित्रात् , सुतरां दर्शनं ग्रहीतव्यं, पुनर्बोधिलाभानुबन्धिशक्यमोक्षोपायत्वात् , तथा च-सिद्ध्यन्ति चरणरहिताः प्राणिनः-दीक्षाप्रवृत्त्यनन्तरमृतान्तकृत्केवलिनः, दर्शनरहितास्तु न सिद्ध्यन्ति, अतो दर्शनमेव प्रधानं सिद्धिकारणं, तद्भावभावित्वादित्ययं गाथार्थः॥११५९ ॥ इत्थं चोदकाभिप्राय उक्तः, साम्प्रतमसहाय-18 दर्शनपक्षे दोषा उच्यन्ते, यदुक्तं-'न श्रेणिक आसीत्तदा बहुश्रुत' इत्यादि, तन्न, तत एवासौ नरकमगमत् , असहायदर्शनयुक्तत्वात् , अन्येऽप्येवंविधा दशारसिंहादयो नरकमेव गता इति, आह च दसारसीहस्स य सेणियस्सा, पेढालपुत्तस्स य सच्चइस्स । अणुत्तरा दंसणसंपया तया, विणा चरित्तेणऽहरं गई गया ॥११६० ॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy