________________
आवश्यकहारिभ
३ वन्दनाध्ययने सम्यक्रव्यां
द्रीया
मोक्षः
॥५३॥
CLASSESSORARSA
इव, अनेन तत्प्रतिपादितसकलदृष्टान्तसङ्ग्रहमाह-यथा ज्ञानपक्षे मार्गज्ञादिभिर्दृष्टान्तरसहायस्य ज्ञानस्यैहिकामुष्मिकफला- |साधकत्वमुक्तम् , एवमत्रापि दर्शनाभिलापेन द्रष्टव्यं, दिङ्मात्रं तु प्रदर्श्यते-यथा 'तीक्ष्णरुचिरपि नरः' तीव्रश्रद्धोऽपि पुरुषः,क्क ?-गन्तुं देशान्तरं देशान्तरगमन इत्यर्थः,'नयविहीनो' ज्ञानगमनक्रियालक्षणनयशून्य इत्यर्थः, प्रामोति न तं देशगन्तुमिष्टं तद्विषयश्रद्धायुक्तोऽपि,नययुक्त एव प्राप्नोति, 'इय' एवं ज्ञानचरणरहितः सम्यग्दृष्टिरपि तत्त्वश्रद्धानयुक्तोऽपि मोक्षदेश तुन प्राप्नोति, नैव सम्यक्त्वप्रभावादेव, किन्तु ज्ञानादिसंयुक्त एव प्रामोति, तस्मात्रितयं प्रधानम्, अतस्त्रितययुक्तस्यैव कृतिकर्म कार्य, त्रितयं चाऽऽत्मनाऽऽसेवनीयं, सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग (तत्त्वा.अ.१सू.१) इति वचनादयं गाथात्रितयार्थः॥१-२-३॥एवमपितत्त्वे समाख्याते ये खल्वधर्मभूयिष्ठा यानि चासदालम्बनानि प्रतिपादयन्ति तदभिधित्सुराहधम्मनियत्तमईया परलोगपरम्मुहा विसयगिद्धा । चरणकरणे असत्ता सेणियरायं ववइसंति ॥ ११५७॥
व्याख्या-धर्मः-चारित्रधर्मः परिगृह्यते तस्मान्निवृत्तामतिर्येषां ते धर्मनिवृत्तमतयः, पर:-प्रधानो लोकः परलोको-मोक्षस्तत्पराङ्मुखाः 'विषयगृद्धाः' शब्दादिविषयानुरक्ताः, ते एवम्भूताश्चरणकरणे 'अशक्ताः' असमर्थाः सन्तः श्रेणिकराज व्यपदिशन्त्यालम्बनमिति गाथार्थः ॥ ११५७ ॥ कथं ?
ण सेणिओ आसि तया बहुस्सुओ, न यावि पन्नत्तिधरो न वायगो।
सो आगमिस्साइ जिणो भविस्सइ, समिक्ख पन्नाइ वरं खु दंसणं ॥११५८॥ व्याख्या-न 'श्रेणिकः' नरपतिरासीत् 'तदा' तस्मिन् काले 'बहुश्रुतः' बहागमः महाकल्पादिश्रुतधर इत्यर्थः, 'न
AAACARAN
॥५३॥