SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ tartot सम्यक्त्वं ज्ञानस्येति गाथार्थः॥ ११५५ ॥ स्यादेतत्-निश्चयतः कार्यकारणभाव एवोपकार्योपकारकभावः, स चासम्भवी युगपद्भाविनोरिति, अत्रोच्यते कारणकजविभागो दीवपगासाण जुगवजम्मेवि । जुगवुप्पन्नपि तहा हेऊ नाणस्स सम्मत्तं ॥११५६॥ व्याख्या-यथेह कारणकार्यविभागो दीपप्रकाशयोः 'युगपज्जन्मन्यपि' युगपदुत्पादेऽपीत्यर्थः, युगपदुत्पन्नमपि तथा 'हेतुः' कारणं ज्ञानस्य सम्यक्त्वं, यस्मादेवं तस्मात्सकलगुणमूलत्वाद्दर्शनस्य दर्शनिन एव कृतिकर्म कार्यम् , आत्मनाऽपि तत्रैव यत्नः कार्यः, सकलगुणमूलत्वादेवेति, उक्तं च-"द्वारं मूलं प्रतिष्ठानमाधारो भाजनं निधिः । धर्महेतोषिटूस्य, सम्यग्दर्शनमिष्यते ॥१॥" अयं गाथाभिप्रायार्थः॥ ११५६ ॥ इत्थं नोदकेनोक्ते सत्याहाचार्यःनाणस्स जइवि हेऊ सविसयनिययं तहावि सम्मत्तं । तम्हा फलसंपत्ती न जुज्जए नाणपक्खे व ॥१॥(प्र०) जह तिक्खरुईवि नरो गंतुं देसंतरं नयविहूणो । पावे न तं देसं नयजुत्तो चेव पाउणइ ॥२॥ (प्र.) इय नाणचरणहीणो सम्मदिठीवि मुक्खदेसं तु । पाउणइ नेय नाणाइसंजुओ चेव पाउणइ ॥३॥ (प्र.) ___ व्याख्या-इदमन्यकर्तृक गाथात्रयं सोपयोगमितिकृत्वा व्याख्यायते, ज्ञानस्य यद्यपि 'हेतुः' कारणं सम्यक्त्वमिति दयोगः, अपिशब्दोऽभ्युपगमवादसंसूचकः, अभ्युपगम्यापि ब्रमः, तत्त्वतस्तु कारणमेव न भवति, उभयोरपि विशिष्टक्षयो| पशमकार्यत्वात् , स्वविषयनियतमितिकृत्वा, स्वविषयश्चास्य तत्त्वेषु रुचिरेव, तथाऽपि 'तस्मात्' सम्यक्त्वात् 'फलसंपत्ती ण जुज्जए' फलसम्प्राप्तिन युज्यते, मोक्षसुखप्राप्तिनं घटत इत्यर्थः, स्वविषयनियतत्वादेव, असहायत्वादित्यर्थः, ज्ञानपक्ष t
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy