SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥५३०॥ तद्भावभावित्वादर्शनस्य ज्ञानोपकारकत्वाद् रेति प्राग्वत् 'दिहिन्ति प्राकृतशैल्या दर्शनमस्यास्तीति दर्शनी तं दर्शनिनं, ३वन्दना'प्रणमामः पूजयाम इति गाथार्थः ॥ ११५३ ॥ स्यादेतत्-सम्यक्त्वज्ञानयोयुगपद्भावादुपकार्योपकारकभावानुपपत्तिरिति, ध्ययने |एतच्चासद्, यतः ज्ञानशोध__ जुगवंपि समुप्पन्नं सम्मत्तं अहिगमं विसोहेइ । जह कायगमंजणाई जलदिहीओ विसोहंति ॥ ११५४ ॥ ___ व्याख्या-'युगपदपि' तुल्यकालमपि 'समुत्पन्न' सञ्जातं सम्यक्त्वं ज्ञानेन सह 'अधिगम विशोधयति' अधिगम्यन्तेपरिच्छिद्यन्ते पदार्था येन सोऽधिगमः-ज्ञानमेवोच्यते, तमधिगमं विशोधयति-ज्ञानं विमलीकरोतीत्यर्थः, अत्रार्थे दृष्टा-| |न्तमाह-यथा काचकाञ्जने जलदृष्टी विशोधयत इति, कचको वृक्षस्तस्येदं काचकं फलम् , अञ्जनं-सौवीरादि, काचकं |चाञ्जनं च काचकाञ्जने, अनुस्वारोऽत्रालाक्षणिक, जलम-उदक, दृष्टि:-स्वविषये लोचनप्रसारणलक्षणा, जलं च दृष्टिश्च जलदृष्टी ते विशोधयत इति गाथार्थः॥११५४॥ साम्प्रतमुपन्यस्तदृष्टान्तस्य दाष्टोन्तिकेनांशतः भावनिकां प्रतिपादयन्नाहजह २ सुज्झइ सलिलं तह २ रूवाई पासई दिही । इय जह जह तत्तरुई तह तह तत्तागमो होइ ॥ ११५५ ॥४॥ व्याख्या- यथा २ शुद्ध्यति सलिलं काचकफलसंयोगात् तथा तथा 'रूपाणि' तद्गतानि पश्यति द्रष्टा, इय' एवं यथा | यथा 'तत्त्वरुचिः' सम्यक्त्वलक्षणा, संजायत इति क्रिया, तथा तथा 'तत्त्वागमः' तत्त्वपरिच्छेदो भवतीति, एवमुपकारकं |
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy