________________
पत्तेयबद्धकरणे चरणं नासंति जिणवरिंदाणं । आहचभावकहणे पंचहि ठाणेहि पासत्था ॥ १९५१॥ व्याख्या-प्रत्येकबुद्धाः-पूर्वभवाभ्यस्तोभयकरणा भरतादयस्तेषां करणं तस्मिन्नान्तर एव फलसाधके सति मन्दमतयश्चरणं नाशयन्ति जिनवरेन्द्राणां सम्बन्धिभूतमात्मनोऽन्येषां च, पाठान्तरं वा 'बोधिं नासिंति जिणवरिंदाणं' कथं ?'आहच्चभावकहणे'त्ति कादाचित्कभावकथने-बाह्यकरणरहितैरेव भरतादिभिः केवलमुत्पादितमित्यादिलक्षणे, कथं नाशयन्ति?-पञ्चभिः स्थानः' प्राणातिपातादिभिः पारम्पर्येण करणभूतैः 'पार्श्वस्था' उक्तलक्षणा इति गाथार्थः ॥११५१॥ यतश्च|उम्मग्गदेसणाए चरणं नासिंति जिणवरिंदाणं । वावन्नदसणा खलु न हु लम्भा तारिसा दडे ॥११५२॥ दारं। | व्याख्या-उन्मार्गदेशनया अनयाऽनन्तराभिहितं चरणं नाशयन्ति जिनवरेन्द्राणां सम्बन्धिभूतमात्मनोऽन्येषां च, अतः 'व्यापन्नदर्शनाः खलु' विनष्टसम्यग्दर्शना निश्चयतः, खल्वित्यपिशब्दार्थों निपातः, तस्य च व्यवहितः सम्बन्धस्तमुपरिष्टात् प्रदर्शयिष्यामः, 'न हु लब्भा तारिसा दटुंति नैव कल्पन्ते तादृशा द्रष्टुमपीति, किं पुनर्ज्ञानादिना प्रतिलाभयितुमिति गाथार्थः ॥११५२ ॥ सप्रसङ्गं गतं ज्ञानद्वारम् , दर्शनद्वारमधुना, तत्र दर्शननयमतावलम्बी कृतिकर्मा|धिकार एवावगतज्ञाननयमत इदमाह
जह नाणेणं न विणा चरणं नादंसणिस्स इय नाणं। न य दंसणं न भावो तेन र दिहि पणिवयामो ॥११५३ ॥ ___ व्याख्या-यथा ज्ञानेन विना न चरणं, किन्तु सहैव, नादर्शनिन एवं ज्ञानं, किन्तु दर्शनिन एव, 'सम्यग्दृष्टानं मिथ्यादृष्टेविपर्यास' इति वचनात् , तथा न च दर्शनं न भावः, किन्तु भाव एव, भावलिङ्गान्तर्गतमित्यर्थः, तेन कारणेन ज्ञानस्य