________________
आवश्यक
हारिभद्रीया
॥५२९॥
हितो ज्ञातुं, 'भाषावैनयिकेन च' विनय एव वैनयिक समालोच्य भाषणेन आचार्यादिविनयकरणेन चेति भावना, ३ वन्दनानैतान्येवम्भूतानि प्रायशोऽसुविहितानां भवन्तीति गाथार्थः ॥ ११४८॥ इत्थमभिहिते सत्याह चोदकः
ध्ययने आलएणं विहारेणं ठाणेचंकमणेण य । न सक्को सुविहिओ नाउं भासावेणइएण य ॥११४९॥
सुविहित__ व्याख्या-आलयेन विहारेण स्थानचङ्क्रमणेन (स्थानेन चङ्क्रमणेन) चेत्यर्थः, न शक्यः सुविहितो ज्ञातुं भाषावैनयिकेनल
त्वज्ञानं च, उदायिनृपमारकमाथुरकोट्टइल्लादिभिर्व्यभिचारात् , तथा च प्रतीतमिदम्-असंयता अपिहीनसत्त्वा लब्ध्यादिनिमित्तं संयतवच्चेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति गाथार्थः॥११४९ ॥ किं च
भरहो पसन्नचंदो सभितरबाहिरं उदाहरणं । दोसुप्पत्तिगुणकरं न तेसि बज्झं भवे करणं ॥११५०॥ ___ व्याख्या-भरतः प्रसन्नचन्द्रः साभ्यन्तरबाह्यमुदाहरणम् , आभ्यन्तरं भरतः, यतस्तस्य बाह्यकरणरहितस्यापि विभू|षितस्यैवाऽऽदर्शकगृहप्रविष्टस्य विशिष्टभावनापरस्य केवलज्ञानमुत्पन्नं, बाह्यं प्रसन्नचन्द्रः, यतस्तस्योत्कृष्टबाह्यकरणवतोऽप्यन्तःकरणविकलस्याधः सप्तमनरकप्रायोग्यकर्मबन्धो बभूव, तदेवं दोषोत्पत्तिगुणकरं न तयोर्भरतप्रसन्नचन्द्रयोः 'वज्झं भवे करणं'ति छान्दसत्वादभूत्करणं दोषोत्पत्तिकारकं भरतस्य नाभूदशोभनं बाह्यं करणं गुणकारकं प्रसन्नचन्द्रस्य नाभूच्छोभनमपीति, तस्मादान्तरमेव करणं प्रधानं, न च तदालयादिनाऽवगन्तुं शक्यते, गुणाधिके च वन्दनमुक्तमिति
॥५२९॥ तूष्णीभाव एव ज्यायान् इति स्थितम् , इत्ययं गाथाभिप्रायः ॥ ११५० ॥ इत्थं तीर्थाङ्गभूतव्यवहारनयनिरपेक्ष चोदकमवगम्यान्येषां पारलौकिकापायदर्शनायाहाचार्य: