SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ SARALLECRUE प्रवाहेण, एवं ज्ञानी चरणहीनः संसारनद्यां प्रमादश्रोतसोह्यत इत्युपनयः, तस्माच्चरणविकलस्य ज्ञानस्याकिञ्चित्करत्वादुभययुक्तस्यैव कृतिकर्म कार्यमिति गाथाभिप्रायार्थः ॥ ११४६ ॥ एवमसहायज्ञानपक्षे निराकृते ज्ञानचरणोभयपक्षे च समर्थिते सत्यपरस्त्वाह गुणाहिए वंदणयं छउमत्थो गुणागुणे अयाणंतो। वंदिजा गुणहीणं गुणाहियं वावि वंदावे ॥११४७॥ व्याख्या-इहोत्सर्गतः गुणाधिके साधौ वन्दनं कर्तव्यमिति वाक्यशेषः, अयं चार्थः श्रमणं वन्देतेत्यादिग्रस्थात्सिद्धः, गुणहीने तु प्रतिषेधः पञ्चानां कृतिकर्मेत्यादिग्रन्थाद् , इदं च गुणाधिकत्वं गुणहीनत्वं च तत्त्वतो दुर्विज्ञेयम् , अतश्छद्मस्थस्तत्त्वतो गुणागुणान् आत्मान्तरवर्तिनः 'अजानन्' अनवगच्छन् किं कुर्यात् , वन्देत वा गुणहीनं कश्चित् , गुणाधिकं चापि वन्दापयेत् , उभयथाऽपि च दोषः, एकत्रागुणानुज्ञाप्रत्ययः अन्यत्र तु विनयत्यागप्रत्ययः, तस्मात्तूष्णीभाव एव श्रेयान् , अलं वन्दनेनेति गाथाभिप्रायः॥ ११४७ ॥ इत्थं चोदकेनोक्ते सति व्यवहारनयमतमधिकृत्य गुणाधिकत्वपरिज्ञानकारणानि प्रतिपादयन्नाचार्य आह आलएणं विहारेणं ठाणाचंकमणेण य । सको सुविहिओ नाउं भासावेणइएण य ॥ ११४८॥ व्याख्या-आलयः-वसतिः सुप्रमार्जितादिलक्षणाऽथवा स्त्रीपशुपण्डकविवर्जितेति, तेनाऽऽलयेन, नागुणवत एवं|विधः खल्वालयो भवति, विहारः-मासकल्पादिस्तेन विहारेण, स्थानम्-ऊर्ध्वस्थानं, चङ्क्रमणं-गमनं, स्थानं च चङ्क्रमणं | चेत्येकवद्भावस्तेन च, अविरुद्धदेशकायोत्सर्गकरणेन च युगमात्रावनिप्रलोकनपुरस्सराद्भुतगमनेन चेत्यर्थः, शक्यः सुवि
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy