________________
आवश्यकहारिभद्रीया
३ वन्दना| ध्ययने | ज्ञानिद्वारं
सोत्तरं
॥५२८॥
व्याख्या-आतोद्यानि-मृदङ्गादीनि नृत्तं-करचरणनयनादिपरिस्पन्दविशेषलक्षणम् आतोद्यैः करणभूतैर्वृत्तम् आतोद्यनृत्तं तस्मिन् कुशला-निपुणा आतोद्यनृत्तकुशला, असावपि नर्तकी, अपिशब्दात् रङ्गजनपरिवृताऽपि 'तं जनं' रङ्गजनं 'न तोषयति' न हर्ष नयतीत्यर्थः, किम्भूता सती ?-'योगमयुञ्जन्ती' कायादिव्यापारमकुर्वती, ततश्चापरितुष्टाद् रङ्गजनान्न किश्चिदू द्रव्यजातं लभत इति गम्यते, अपि तु निन्दां खिंसां च सा लभते रङ्गजनादिति, तत्समक्षमेव या हीलना |सा निन्दा, परोक्षे तु सा खिंसेति गाथार्थः॥११४४ ॥ इत्थं दृष्टान्तमभिधाय दार्शन्तिकयोजनां प्रदर्शयन्नाह
इय लिंगनाणसहिओ काइयजोगं न जुंजई जो उन लहइ स मुक्खसुक्खं लहइ य निंद सपक्खाओ॥११४५॥ | व्याख्या-'इय' एवं लिङ्गज्ञानाभ्यां सहितो-युक्तो लिङ्गज्ञानसहितः 'काययोग' कायव्यापार 'न युङ्क्ते न प्रवर्तयति, यस्तु 'न लभते' न प्रामोति 'स' इत्थम्भूतः किं ?-'मोक्षसौख्यं' सिद्धिसुखमित्यर्थः, लभते तु निन्दा स्वपक्षात्, चशब्दाखिसां च, इह च नर्तकीतुल्यः साधुः, आतोद्यतुल्यं द्रव्यलिङ्गं, नृत्तज्ञानतुल्यं ज्ञानं, योगव्यापारतुल्यं चरणं, रङ्गपरि|तोषतुल्यः सङ्घपरितोषः, दानलाभतुल्यः सिद्धिसुखलाभः, शेषं सुगम, यत एवमतो ज्ञानचरणसहितस्यैव कृतिकर्म कार्यमिति गाथाभावार्थः ॥ ११४५ ॥ चरणरहितं ज्ञानमकिञ्चित्करमित्यस्यार्थस्य साधका बहवो दृष्टान्ताः सन्तीति प्रदर्शनाय पुनरपि दृष्टान्तमाह
जाणंतोऽवि य तरि काइयजोगं न जुंजइ नईए । सो वुज्झइ सोएणं एवं नाणी चरणहीणो ॥११४६॥ व्याख्या-जानन्नपि च तरीतुं यः 'काययोर्ग' कायव्यापार न युङ्क्ते नद्यां स पुमान् 'उह्यते' हियते 'श्रोतसा' पयः
॥५२८॥