________________
गच्छगता निर्गताश्च जिनकल्पिकादयः, यथा रूपको भङ्गत्रयान्तर्गतः 'अच्छेक' इत्यविकल इति तदर्थक्रियार्थिना नोपादीयते, चतुर्थभङ्गनिरूपित एवोपादीयते, एवं भङ्गत्रयनिदर्शिताः पुरुषा अपि परलोकार्थिनो यतो न नमस्करणीयाः,18| चरमभङ्गकनिदर्शिता एव नमस्करणीया इति भावना, अक्षराणि त्वेवं नीयन्ते-रूपं शुद्धाशुद्धभेदं, टङ्क विषमाहताक्षरं-16 विपर्यस्तनिविष्टाक्षरं, नैव रूपकः छेकः, असांव्यवहारिक इत्यर्थः, द्वयोरपि शुद्धरूपसमाहताक्षरटङ्कयोः समायोगे सति रूपकश्छेकत्वमुपैतीति गाथार्थः॥ ११३८ ॥ रूपकदृष्टान्ते दार्टान्तिकयोजनां निदर्शयन्नाहरुप्पं पत्तेयबुहा टंक जे लिंगधारिणो समणा। व्वस्स य भावस्स य छेओ समणो समाओगो ॥११३९॥ दारं॥
व्याख्या-रूपं प्रत्येकबुद्धा इत्यनेन तृतीयभङ्गाक्षेपः, 'टकं ये लिङ्गधारिणः श्रमणा इत्यनेन तु द्वितीयस्य, अनेनैवाशुद्धशुद्धोभयात्मकस्यापि प्रथमचरमभङ्गद्वयस्येति, तत्र द्रव्यस्य च भावस्य च छेकः श्रमणः समायोगे-समाहताक्षरटङ्कशुद्धरूपकल्पद्रव्यभावलिङ्गसंयोगे शोभनः साधुरिति गाथार्थः॥११३९॥ व्याख्यातं सप्रपञ्चं वैडूर्यद्वार, ज्ञानद्वारमधुना, इह कश्चिज्ज्ञानमेव प्रधानमपवर्गबीजमिच्छति, यतः किल एवमागमः-'जं' अण्णाणी कम्म खवेइ बहुयाहिं वासकोडीहिं। तं णाणी तिहि गुत्तो खवेइ उसासमित्तेणं ॥१॥' तथा-'सुई जहा ससुत्ता ण णासई कयवरंमि पडियावि । जीवो तहा ससुत्तो ण णस्सइ गओऽवि संसारे ॥२॥ तथा-'णाणं गिण्हइ णाणं गुणेइ णाणेण कुणइ किच्चाई । भवसंसारसमुदं
यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छवासमात्रेण ॥ १॥ सूचिर्यथा ससूत्रा न नश्यति कचवरे पतिताऽपि। | जीवस्तथा ससूत्रो न नश्यति गतोऽपि संसारे ॥२॥ज्ञानं गृह्णाति ज्ञानं गुणयति ज्ञानेन करोति कृत्यानि । भवसंसारसमुद्रं ज्ञानी ज्ञाने स्थितस्तरति ॥३॥