SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया |३वन्दनाध्ययने ज्ञानिद्वारं सोत्तरं ॥५२७॥ HARASSA णाणी णाणे ठिओ तरइ ॥३॥ तस्माज्ज्ञानमेव प्रधानमपवर्गप्राप्तिकारणम् , अतो ज्ञानिन एव कृतिकर्म कार्यम् , आहअनन्तरगाथायामेव द्रव्यभावसमायोगेश्रमण उक्तः तस्य च कृतिकर्म कार्यमित्युक्तं, चरणं च भावो वर्तत इत्युक्ते सत्याहकामं चरणं भावो तं पुण नाणसहिओ समाणेई । न य नाणं तु न भावो तेण रणाणिं पणिवयामो॥११४०॥ ___ व्याख्या-'कामम्' अनुमतमिदं, यदुत 'चरणं' चारित्रं 'भावः' भावशब्दो भावलिङ्गोपलक्षणार्थः, तत्पुनः 'ज्ञानसहितः' ज्ञानयुक्तः 'समापयति' निष्ठां नयति, यत इदमित्थमासेवनीयमिति ज्ञानादेवावगम्यते, तस्मात्तदेव प्रधानं, न च ज्ञानं तु न भावः, भाव एव, भावलिङ्गान्तर्गतमिति भावना, तेन कारणेन र इति निपातः पूरणार्थः, ज्ञानमस्यास्तीति ज्ञानी तं ज्ञानिनं 'प्रणमामः' पूजयाम इति गाथार्थः ॥ ११४० ॥ यतश्च बाह्यकरणसहितस्याप्यज्ञानिनश्चरणाभाव एवोक्तःतम्हा ण बज्झकरणं मज्झपमाणं न यावि चारित्तं।माणं मज्झ पमाणं नाणे अ ठिअंजओ तित्थं ॥११४१॥ व्याख्या-तस्मान्न 'बाह्यकरणं' पिण्डविशुद्ध्यादिकं मम प्रमाणं, न चापि 'चारित्रं' व्रतलक्षणं, तज्ज्ञानाभावे तस्याप्यभावात् , अतो ज्ञानं मम प्रमाणं, सति तस्मिन् चरणस्यापि भावात्, ज्ञाने च स्थितं यतस्तीर्थ, तस्यागमरूपत्वादिति | गाथार्थः ॥ ११४१॥ किं चान्यद्-दर्शनं भाव इष्यते, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति (तत्त्वार्थे अ० १ सू० १) वचनात् , तच्च दर्शनं द्विधा-अधिगमजं नैसर्गिकं च, इदमपि च ज्ञानायत्तोदयमेव वर्तते, तथा चाहनाऊण य सम्भावं अहिगमसंमंपि होइ जीवस्स । जाईसरणनिसग्गुग्गयाविन निरागमा दिट्ठी॥११४२॥ व्याख्या-'ज्ञात्वा च' अवगम्य 'सद्भावं' सतां भावः सद्भावस्त, सन्तो जीवादयः, किम् ?-अधिगमात्-जीवादि ५२७॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy