SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ है देवदत्त ! नमरत कीदृशस्त्वमि सम्प्रकटसेवी न भवत्यपि अतस्तद्ब्रहणं, संप्रकटसेवी चरणकरणप्रभ्रष्ट एवेति स्वरूपकथनमिति गाथार्थः ॥ ११२६ ॥ किं तक्रियत इत्यत आह वायाइ नमोकारो हत्थुस्सेहो य सीसनमणं च । संपुच्छणऽच्छणं छोभवंदणं वंदणं वावि ॥११२७॥ व्याख्या-'वायाए'त्ति निर्गमभूम्यादौ दृष्टस्य वाचाऽभिलापः क्रियते-हे देवदत्त! कीदृशस्त्वमित्यादिलक्षणः, गुरुतर पुरुषकार्यापेक्षं वा तस्यैव 'नमोक्कारो'त्ति नमस्कारः क्रियते-हे देवदत्त ! नमस्ते, एवं सर्वत्रोत्तरविशेषकरणे पुरुषकार्यभेदः प्राक्तनोपचारानुवृत्तिश्च द्रष्टव्या, 'हत्थुस्सेहो य'त्ति अभिलापनमस्कारगर्भः हस्तोच्छ्रयश्च क्रियते, 'सीसनमणं च' शिरसाउत्तमाङ्गेन नमनं शिरोनमनं च क्रियते, तथा 'सम्प्रच्छन' कुशलं भवत इत्यादि, अनुस्वारलोपोऽत्र द्रष्टव्यः, 'अच्छणं'तित [बहुमानस्त ]त्सन्निधावासनं कश्चित्कालमिति, एष तावद्धहिदृष्टस्य विधिः, कारणविशेषतः पुनस्तत्प्रतिश्रयमपि गम्यते, तत्राप्येष एव विधिः, नवरं 'छोभवंदणं'ति आरभट्या छोभवन्दनं क्रियते, 'वन्दणं वाऽवि' परिशुद्धं वा वन्दनमिति गाथार्थः॥ ११२७ ॥ एतच्च वाइमस्कारादि नाविशेषेण क्रियते, किं तर्हि - परियायपरिसपुरिसे खित्तं कालं च आगमं नच्चा । कारणजाए जाए जहारिहं जस्स जं जुग्गं ॥ ११२८ ॥ __ व्याख्या–पर्यायश्च परिषच्च पुरुषश्च पर्यायपरिषत्पुरुषास्तान् , तथा क्षेत्रं कालं च आगमं 'णच्च'त्ति ज्ञात्वा-विज्ञाय 'कारणजाते' प्रयोजनप्रकारे 'जाते' उत्पन्ने सति यथार्ह' यथानुकूलं 'यस्य' पर्यायादिसमन्वितस्य यद् 'योग्य' समनुरूपंवाङ्ग मस्कारादि तत्तस्य, क्रियत इति वाक्यशेषः, अयं गाथासमासार्थः॥११२८॥ साम्प्रतमवयवार्थ प्रतिपादयन्नाह भाष्यकार: मन शिरोनमनहत्थुस्सेहो यति
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy