SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया ॥५२३॥ व्याख्या – 'अपूर्वम्' अदृष्टपूर्वं साधुमिति गम्यते, 'दृष्ट्वा' अवलोक्य, आभिमुख्येनोत्थानमभ्युत्थानम् - आसनत्यागलक्षणं, तुशब्दाद्दण्डकादिग्रहणं च भवति कर्त्तव्यं किमिति ?, कदाचिदसौ कश्चिदाचार्यादिर्विद्याद्यतिशयसम्पन्नः तत्प्रदानायैवाऽऽगतो भवेत्, प्रशिष्यसकाशमाचार्यका लकवत्, स खल्वविनीतं सम्भाव्य न तत्प्रयच्छतीति, तथा दृष्टपूर्वास्तु द्विप्रकारा- उद्यतविहारिणः शीतलविहारिणश्च तत्रोद्यतविहारिणि साधौ 'दृष्टपूर्वे' उपलब्धपूर्वे 'यथार्ह' यथायोग्यमभ्युत्थानवन्दनादि 'यस्य' बहुश्रुतादेर्यद् योग्यं तत्कर्तव्यं भवति यः पुनः शीतलविहारी न तस्याभ्युत्थानवन्दनाद्युत्सर्गतः किञ्चित्कर्तव्यमिति गाथार्थः ॥ ११२५ ॥ साम्प्रतं कारणतः शीतलवि हारिगतविधिप्रतिपादनाय सम्बन्धगाथामाह मुक्कधुरासंपागडसेवीचरणकरणपन्भट्ठे । लिंगावसेसमित्ते जं कीरइ तं पुणो वोच्छं ॥ ११२६ ॥ व्याख्या - धूः- संयमधूः परिगृह्यते, मुक्ता-परित्यक्ता धूर्येनेति समासः, सम्प्रकटं - प्रवचनोपघातनिरपेक्षमेव मूलोतरगुणजालं सेवितुं शीलमस्येति सम्प्रकटसेवी, मुक्तधूश्चासौ सम्प्रकटसेवी चेति विग्रहः, तथा चर्यत इति चरणं - व्रतादिलक्षणं क्रियत इति करणं-पिण्डविशुद्ध्यादिलक्षणं चरणकरणाभ्यां प्रकर्षेण भ्रष्टः- अपेतश्चरणकरणप्रभ्रष्टः, मुक्तधूः सप्रकटसेवी चासौ चरणकरणप्रभ्रष्टश्चेति समासस्तस्मिन्, प्राकृतशैल्या अकारेकारयोर्दीर्घत्वम्, इत्थम्भूते 'लिङ्गावशेषमात्रे' केवलद्रव्यलिङ्गयुक्ते यत्क्रियते किमपि तत्पुनर्वक्ष्ये, पुनःशब्दो विशेषणार्थः, किं विशेषयति ? - कारणापेक्षं - कारण - माश्रित्य यत्क्रियते तद्वक्ष्ये - अभिधास्ये, कारणाभावपक्षे तु प्रतिषेधः कृत एव, विशेषणसाफल्यं तु मुक्तधूरपि कदाचि ३ वन्दनाध्ययने लिङ्गेअपूसर्वसाधौकृत्यं ॥५२३॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy