SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ज्ञविषयः, 'अहं खु छउमत्थोत्ति अहं पुनश्छद्मस्था, अतो 'लिङ्गमेव' रजोहरणगोच्छ प्रतिग्रहधरणलक्षणं 'पूजयामि वन्दे इत्यर्थः, 'त्रिकरणशुद्धेन भावेन' वाक्कायशुद्धेन मनसेति गाथार्थः ॥ ११२२ ॥ अत्राचार्य आह जइ ते लिंग पमाणं वंदाही निण्हवे तुमे सव्वे । एए अवंदमाणस्स लिंगमवि अप्पमाणं ते ॥११२३ ॥ ___ व्याख्या-'यदी'त्ययमभ्युपगमप्रदर्शनार्थः 'ते' तव लिङ्ग-द्रव्यलिङ्गम् , अनुस्वारोऽत्र च लुप्तो वेदितव्यः, प्रमाणंकारणं वन्दनकरणे, इत्थं तर्हि 'वन्दस्व' नमस्य 'निवान्' जमालिप्रभृतीन् त्वं 'सर्वान्' निरवशेषान् , द्रव्यलिङ्गयुक्तत्वात् तेषामिति, अथैतान मिथ्यादृष्टित्वान्न वन्दसे तत् ननु 'एतान्' द्रव्यलिङ्गयुक्तानपि 'अवन्दमानस्य' अप्रणमतः लिङ्गमप्यप्रमाणं तव वन्दनप्रवृत्ताविति गाथार्थः ॥ ११२३ ॥ इत्थं लिङ्गमात्रस्य वन्दनप्रवृत्तावप्रमाणतायां प्रतिपादितायां सत्यामनभिनिविष्टमेव सामाचारिजिज्ञासयाऽऽह चोदकः- ।।.. जइ लिंगमप्पमाणं न नजई निच्छएण को भावो? हृण समणलिंगं किं कायव्वं तु समणेणं? ॥११२४ ॥ | व्याख्या यदि 'लिङ्गं द्रव्यलिङ्गम् 'अप्रमाणम्' अकारणं वन्दनप्रवृत्ती, इत्थं तर्हि 'न ज्ञायते' नावगम्यते 'निश्चयेन'| | परमार्थेन छद्मस्थेन जन्तुना कस्य को भावः, यतोऽसंयता अपि लब्ध्यादिनिमित्तं संयतवच्चेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति, तदेवं व्यवस्थिते 'दृष्ट्वा' अवलोक्य 'श्रमणलिङ्ग' साधुलिङ्ग किं पुनः कर्तव्यं 'श्रमणेन' साधुना , पुनःशब्दार्थस्तुशब्दो व्यवहितश्चोक्तो गाथानुलोम्यादिति गाथार्थः ॥ ११२४ ॥ एवं चोदकेन पृष्टः सन्नाहाचार्य: अप्पुव्वं दहणं अब्भुट्ठाणं तु होइ कायव्वं । साहुम्मि दिपुव्वे जहारिहं जस्स जं जोग्गं ॥ ११२५ ॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy