________________
आवश्यकहारिभद्रीया
३ वन्दना
ध्ययने |संसर्गजा दोषगुणाः
॥५२२॥
___ व्याख्या-खुशब्दोऽवधारणे, एवमेव शीलमस्यास्तीति शीलवान् स खलु 'अशीलवद्भिः' पार्श्वस्थादिभिः सार्द्ध मीलितः सन् 'प्राप्नोति' आसादयति गुणा-मूलोत्तरगुणलक्षणास्तेषां परिहाणिः-अपचयः गुणपरिहाणिः तां, तथैहिकांश्चापायांस्त|त्कृतदोषसमुत्थानिति, मीलनदोषानुभावेनेति गाथार्थः ॥ ११२० ॥ यतश्चैवमतःखणमवि न खमं काउं अणाययणसेवणं सुविहियाणं । हंदि समुद्दमइगयं उदयं लवणत्तणमुवेइ ॥ ११२१॥ __ व्याख्या-लोचननिमेषमात्रः कालः क्षणोऽभिधीयते, तं क्षणमपि, आस्तां तावन्मुहूर्तोऽन्यो वा कालविशेषः, 'न क्षम' न योग्यं, किं ?-'काउं अणाययणसेवणं ति कर्तु-निष्पादयितुम् अनायतनं-पार्श्वस्थाद्यायतनं तस्य सेवनं-भजनम् अनायतनसेवनं, केषां ?-सुविहितानां साधूनां, किमित्यत आह-'हन्दि' इत्युपदर्शने, समुद्रमतिगत-लवणजलधि प्राप्तम् 'उदक' मधुरमपि सत् 'लवणत्वमुपैति' क्षारभावं याति, एवं सुविहितोऽपि पार्श्वस्थादिदोषसमुद्रं प्राप्तस्तद्भावमाप्नोति, अतः परलोकार्थिना तत्संसर्गिस्त्याज्येति, ततश्च व्यवस्थितमिदं-येऽपि पार्श्वस्थादिभिः सार्द्ध संसर्गि कुर्वन्ति तेऽपि न वन्दनीयाः, सुविहिता एव वन्दनीया इति ॥ अत्राऽऽहसुविहिय दुविहियं वा नाहं जाणामि हं खु छउमत्थो। लिंगं तु पूययामी तिगरणसुद्धेण भावेणं ॥११२२॥
व्याख्या-शोभनं विहितम्-अनुष्ठानं यस्यासौ सुविहितस्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, दुर्विहितस्तु पार्श्वस्थादिस्तं दुर्विहितं वा 'नाहं जानामि' नाहं वेद्मि, यतः अन्तःकरणशुद्ध्यशुद्धिकृतं सुविहितदुर्विहितत्वं, परभावस्तु तत्त्वतः सर्व
॥५२२॥