________________
मधुरः ?, यदि संसर्गी प्रमाणं तवेति गाथार्थः ॥ १११७ ॥ आहाचार्यः - ननु विहितोत्तरमेतत् 'भावुग अभावुगाणि य' इत्यादिग्रन्थेन, अत्रापि च केवली अभाव्यः पार्श्वस्थादिभिः, सरागास्तु भाव्या इति । आह-तैः सहाऽऽलापमात्रतायां संसयों क इव दोष इति ?, उच्यते
ऊणगसयभागेणं बिंबाई परिणमंति तन्भावं । लवणागराइसु जहा वज्जेह कुसीलसंसगिंग ॥ १११८ ॥
व्याख्या—ऊनश्चासौ शतभागश्चोनशतभागोऽपि न पूर्यत इत्यर्थः तेन तावताऽंशेन प्रतियोगिना सह सम्बद्धानीति प्रक्रमाद्गम्यते ' बिम्बानि' रूपाणि 'परिणमन्ति' तद्भावमासादयन्ति लवणीभवन्तीत्यर्थः, लवणागरादिषु यथा, आदिशब्दाद्भाण्डखादिकारसादिग्रहः, तत्र किल लोहमपि तद्भावमासादयति, तथा पार्श्वस्थाद्यालापमात्र संसर्ग्याऽपि सुविहितास्तमेव भावं यान्ति, अतः 'वज्जेह कुसीलसंसंगिंग' त्यजत कुशीलसंसर्गिमिति गाथार्थः ॥ १११८ ॥ पुनरपि संसर्गिदोपप्रतिपादनायैवाऽऽह
जह नाम महुरसलिलं सायरसलिलं कमेण संपत्तं । पावेइ लोणभावं मेलणदोसाणुभावेणं ॥ १११९ ॥ व्याख्या—‘यथे’त्युदाहरणोपन्यासार्थः 'नामेति निपातः 'मधुरसलिल' नदीपयः तलवणसमुद्रं 'क्रमेण' परिपाठ्या सम्प्राप्तं सत् 'पावेइ लोणभावं' प्राप्नोति - आसादयति लवणभावं - क्षारभावं मधुरमपि सन्, मीलनदोषानुभावेनेति गाथार्थः ॥ १११९ ॥
एवं खु सीलवंतो असीलवंतेहिं मीलिओ संतो। पावइ गुणपरिहाणि मेलणदोसाणुभावेणं ॥ ११२० ॥