SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ द्रीया ॥५२१॥ ताच्छीलिकत्वादिति, तद्विपरीतानि अभाव्यानि च - नलादीनि लोके 'द्विविधानि' द्विप्रकाराणि भवन्ति 'द्रव्याणि ' वस्तूनि, वैडूर्यस्तत्र मणिरभाव्यः 'अन्यद्रव्यैः' काचादिभिरिति गाथार्थः ॥ १११४ ॥ स्यान्मतिः - जीवोऽप्येवम्भूत एव भविष्यति न पार्श्वस्थादिसंसर्गेण तद्भावं यास्यति, एतच्चासत्, यतः -- | जीवो अणाइनिहणो तन्भावणभाविओ य संसारे । खिष्पं सो भाविज्जइ मेलणदोसाणुभावेणं ॥ १११५ ॥ व्याख्या – 'जीवः' प्राग्निरूपितशब्दार्थः, स हि अनादिनिधनः अनाद्यपर्यन्त इत्यर्थः, 'तद्भावनाभावितश्च' पार्श्वस्थाद्याचरितप्रमादादिभावनाभावितश्च 'संसारे' तिर्यग्नरनारकामरभवानुभूतिलक्षणे, ततश्च तद्भावनाभावितत्वात् 'क्षिप्रं ' शीघ्रं स 'भाव्यते' प्रमादादिभावनयाऽऽत्मीक्रियते 'मीलनदोषानुभावेन' संसर्गदोषानुभावेनेति गाथार्थः ॥ १११५ ॥ अथ भवतो दृष्टान्तमात्रेण परितोषः ततो मद्विवक्षितार्थप्रतिपादकोऽपि दृष्टान्तोऽस्त्येव, शृणु अंबरस य निंबस्स यदुण्हंपि समागयाई मूलाई । संसग्गीइ विणडो अंबो निंयत्तणं पत्तो ॥ १११६ ॥ व्याख्या–चिरपतिततिक्त निम्बोदकवासितायां भूमौ आम्रवृक्षः समुत्पन्नः पुनस्तत्राऽऽम्रस्य च निम्बस्य च द्वयोरपि 'समागते' एकीभूते मूले, ततश्च 'संसर्ग्या' सङ्गत्या विनष्ट आम्रो निम्बत्वं प्राप्तः - तिक्तफलः संवृत्त इति गाथार्थः ॥ १११६ ॥ तदेवं संसर्गिदोषदर्शनात्त्याज्या पार्श्वस्थादिसंसर्गिरिति । पुनरप्याह चोदकः- नन्वेतदपि सप्रतिपक्षं, तथाहि| सुचिरंपि अच्छमाणो नलथंभो उच्छुवाडमज्झमि । कीस न जायइ महुरो ? जइ संसग्गी प्रमाणं ते ॥ १११७ ॥ व्याख्या- 'सुचिरमपि' प्रभूतकालमपि तिष्ठन् 'नलस्तम्त्रः' वृक्षविशेषः 'इक्षुवाटमध्ये' इक्षुसंसर्ग्य किमिति न जायते ३ वन्दनाध्ययने संसर्गजा दोषगुणाः ॥५२१॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy