________________
पासत्थाई वंदमाणस्स नेव कित्ती न निजरा होइ । कायकिलेसं एमेव कुणई तह कम्मबंधं च ॥ ११०८ ॥
व्याख्या – 'पार्श्वस्थादीन्' उक्तलक्षणान् 'वन्दमानस्य' नमस्कुर्वतो नैव कीर्तिर्न निर्जरा भवति, तत्र कीर्तिः - अहो अयं पुण्यभागित्येवंलक्षणा सा भवति, अपि त्वकीर्तिर्भवति, नूनमयमध्येवस्वरूपो येनैषां वन्दनं करोति, तथा निर्जरणं निर्जरा - कर्मक्षयलक्षणा सा न भवति, तीर्थंकराज्ञाविराधनाद्वारेण निर्गुणत्वात्तेषामिति, चीयत इति कायः - देहस्तस्य क्लेशः - अवनामादिलक्षणः कायक्लेशस्तं कायक्लेशम् 'एवमेव' मुधैव 'करोति' निर्वर्तयति, तथा क्रियत इति कर्मज्ञानावरणीयादिलक्षणं तस्य बन्धो- विशिष्टरचनयाऽऽत्मनि स्थापनं तेन वा आत्मनो बन्धः - स्वस्वरूपतिरस्करणलक्षणः कर्मबन्धस्तं कर्मबन्धं च करोतीति वर्तते, चशब्दादाज्ञाभङ्गादींश्च दोषानवाप्नुते, कथं ? - भगवत्प्रतिक्रुष्टवन्दने आज्ञाभङ्गः, तं दृष्ट्वाऽन्येऽपि वन्दन्तीत्यनवस्था, तान् वन्दमानान् दृष्ट्वाऽन्येषां मिथ्यात्वं, कायक्लेशतो देवताभ्यो वाऽऽत्मविराधना, तद्वन्दनेन तत्कृतासंयमानुमोदनात्संयमविराधनेति गाथार्थः ॥ ११०८ ॥ एवं तावत्पार्श्वस्थादीन् वन्दमानस्य दोषा उक्ताः, साम्प्रतं पार्श्वस्थानामेव गुणाधिकवन्दनप्रतिषेधमकुर्वतामपायान् प्रदर्शयन्नाह
जे भरभट्ठा पाए उडुंति बंभयारीणं । ते होंति कुंटमंटा बोही य सुदुल्लहा तेसिं ॥ ११०९ ॥ व्याख्या - ये पार्श्वस्थादयो भ्रष्टब्रह्मचर्या अपगतं ब्रह्मचर्या इत्यर्थः, ब्रह्मचर्यशब्दो मैथुनविरतिवाचकः, तथैौघतः संयमवाचकश्च, 'पाए उडिति बंभयारीणं' पादावभिमानतो व्यवस्थापयन्ति ब्रह्मचारिणां वन्दमानानामिति, न तद्वन्द ननिषेधं कुर्वन्तीत्यर्थः, ते तदुपात्तकर्मजं नारकत्वादिलक्षणं विपाकमासाद्य यदा कथञ्चित्कृच्छ्रेण मानुषत्वमासादयन्ति