________________
३ वन्दनाध्ययने अवन्धव|न्दनेदोषाः
॥५१९॥
आवश्यक-४
तदाऽपि भवन्ति कोंटमण्टाः 'बोधिश्च' जिनशासनावबोधलक्षणा सकलदुःखविरेकभूता सुदुर्लभा तेषां, सकृत्प्राप्तौ सत्या हारिभ- मप्यनन्तसंसारित्वादिति गाथार्थः॥ ११०९॥ तथाद्रीया
सुझुतरं नासंती अप्पाणं जे चरित्तपन्भट्ठा । गुरुजण वंदाविती सुसमण जहुत्तकारिं च ॥ १११०॥ दारं ॥ ___ व्याख्या 'सुहृतरं'ति सुतरां नाशयन्त्यात्मानं सन्मार्गात् , के ?-ये चारित्रात्-प्राग्निरूपितशब्दार्थात् प्रकर्षण भ्रष्टाः| अपेताः सन्तः 'गुरुजन' गुणस्थसुसाधुवर्ग 'वन्दयन्ति' कृतिकर्म कारयन्ति, किम्भूतं गुरुजनं ?-शोभनाः श्रमणा यस्मिन् स सुश्रमणस्तं, अनुस्वारलोपोऽत्र द्रष्टव्यः, तथा यथोक्तं क्रियाकलापं कर्तुं शीलमस्येति यथोक्तकारी तं यथोक्तकारिणं चेति गाथार्थः ॥१११० ॥ एवं वन्दकवन्द्यदोषसम्भवात्पार्श्वस्थादयो न वन्दनीयाः, तथा गुणवन्तोऽपि ये तैः सार्द्ध संसर्ग कुर्वन्ति तेऽपि न वन्दनीयाः, किमित्यत आह
असुइठाणे पडिया चंपगमाला न कीरई सीसे । पासत्थाईठाणेसु वट्टमाणा तह अपुज्जा ॥११११ ॥ व्याख्या-यथा 'अशुचिस्थाने' विप्रधाने स्थाने पतिता चम्पकमाला स्वरूपतः शोभनाऽपि सत्यशुचिस्थानसंसर्गान्न | क्रियते शिरसि, पार्श्वस्थादिस्थानेषु वर्तमानाः साधवस्तथा 'अपूज्याः' अवन्दनीयाः, पार्श्वस्थादीनां स्थानानि-वसतिनिर्गमभूम्यादीनि परिगृह्यन्ते, अन्ये तु शय्यातरपिण्डाद्युपभोगलक्षणानि व्याचक्षते यत्संसर्गात्पार्श्वस्थादयो भवन्ति, न चैतानि सुष्टु घटन्ते, तेषामपि तद्भावापत्तेः, चम्पकमालोदाहरणोपनयस्य च सम्यगघटमानत्वादिति । अत्र कथानक
॥५१९॥