SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ SAMSUSLAMSALA ... इदं वन्दनं कर्तव्यं कस्य वा केन वाऽपि 'कदा वा' कस्मिन् वा काले 'कतिकृत्वो वा' कियत्यो वा वाराः। अवनतिः-अवनतं, कत्यवनतं तद्वन्दनं कर्तव्यं ?, कतिशिरः कति शिरांसि तत्र भवन्तीत्यर्थः, कतिभिरावश्यकैःआवर्तादिभिः परिशुद्धं, कतिदोषविप्रमुक्तं, टोलगत्यादयो दोषाः, 'कृतिकर्म वन्दनकर्म 'कीस कीरइ'त्ति किमिति वा क्रियत इति गाथाद्यसंक्षेपार्थः॥ अवयवार्थ उच्यते, तत्र वन्दनकर्म द्विधा-द्रव्यतो भावतश्च, द्रव्यतो मिथ्यादृष्टेरनुप. युक्तसम्यग्दृष्टेश्च, भावतः सम्यग्दृष्टरुपयुक्तस्य, चितिकर्मापि द्विधैव-द्रव्यतो भावतश्च, द्रव्यतस्तापसादिलिङ्गग्रहणकर्मा-४ नुपयुक्तसम्यग्दृष्टे रजोहरणादिकर्म च, भावतः सम्यग्दृष्ट्युपयुक्ता रजोहरणाद्युपधिक्रियेति, कृतिकर्मापि द्विधा-द्रव्यतः कृतिकर्म निह्नवादीनामवनामादिकरणमनुपयुक्तसम्यग्दृष्टीनां च, भावतः सम्यग्दृष्ट्युपयुक्तानामिति, पूजाकोपि द्विधाद्रव्यतो निह्नवादीनां मनोवाक्कायक्रिया अनुपयुक्तसम्यग्दृष्टीनां च, भावतः सम्यग्दृष्ट्युपयुक्तानामिति, विनयकर्मापि द्विधा-द्रव्यतो निह्नवादीनामनुपयुक्तसम्यग्दृष्टीनां च, भावत उपयुक्तसम्यग्दृष्टीनां विनयक्रियेति ॥ साम्प्रतं वन्दनादिषु द्रव्यभावभेदप्रचिकटयिषया दृष्टान्तान् प्रतिपादयन्नाह सीयले खुडुए कण्हे, सेवए पालए तहा । पंचेते दिढता किइकम्मे होंति णायव्वा ॥११०४॥ व्याख्या-सीतलः क्षुल्लकः कृष्णः सेवकः पालकस्तथा पञ्चैते दृष्टान्ताः कृतिकर्मणि भवन्ति ज्ञातव्या इति । कः पुनः | शीतलः ?, तत्र कथानकम्-ऐगस्स रण्णो पुत्तो सीयलो णाम, सो य णिविणकामभोगो पबतिओ, तस्स य भगिणी १ एकस्य राज्ञः पुत्रः शीतलो नाम, स च निर्विणकामभोगः प्रवजितः, तस्य च भगिनी
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy