SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥५११॥ वन्दनं-निरूपितमेव, 'चिञ् चयने अस्य 'स्त्रियां क्तिन' (पा. ३-३-९४ ) कुशलकर्मणश्च चयनं चितिः, वन्दना कारणे कार्योपचाराद्रजोहरणाद्युपधिसंहतिरित्यर्थः, चीयते असाविति वा चितिः, भावार्थः पूर्ववत् , 'डुकृञ् ध्ययने करणे' अस्यापि तिन्प्रत्ययान्तस्य करणं कृतिः अवनामादिकरणमित्यर्थः, क्रियतेऽसाविति वा कृतिः-मोक्षा वन्दनपयावनामादिचेष्टैव, वन्दनं च चितिश्च कृतिश्च वन्दनचितिकृतयः ता एव तासां वा कर्म वन्दनचितिकृतिकर्म, योया: कर्मशब्दः प्रत्येकमभिसंबध्यते अनेकार्थश्चाय, क्वचित्कारकवाचकः 'कर्तुरीप्सिततमं कर्मे ( पा० १-४-४९) ति वचनात् , क्वचित् ज्ञानावरणीयादिवाचकः, 'कृत्स्नकर्मक्षयान्मोक्ष' (तत्त्वा० अ० १० सू० ३) इति वचनात्, क्वचित् क्रियावाचकः, 'गन्धर्वा रञ्जिताः सर्वे, सङ्ग्रामे भीमकर्मणे ति वचनात् , इह क्रियावचनः परिगृह्यते, ततश्च वन्दनकर्म चितिकर्म कृतिकर्म इति, इह च पुनः क्रियाऽभिधानं विशिष्टावनामादिक्रियाप्रतिपादनार्थमदुष्टमेवेति, 'पूज पूजायाम्' अस्य 'गुरोश्च हल'(पा०३-३-१०३) इत्यप्रत्ययान्तस्य पूजनं पूजा-प्रशस्तमनोवाकायचेष्टेत्यर्थः, पूजायाः कर्म पूजाकर्म पूजाक्रियेत्यर्थः, पूजैव वा कर्म पूजाकर्म, चशब्दःपूजाक्रियाया वन्दनादिक्रियासाम्यप्रदर्शनार्थः,'णीज् प्रापणे' इत्यस्य एरचि(पा०३-३-५६) ति अच्प्रत्यये गुणे अयादेशे सति विपूर्वस्य विनयनं विनयः, कर्मापनयनमित्यर्थः, विनीयते | वाऽनेनाष्टप्रकारं कर्मेति विनयस्तस्य कर्मविनयकर्म, चः पूर्ववदेव, अयं गाथार्द्धसंक्षेपार्थः ॥ आह ४ ॥११॥ कायचं कस्स व केण वावि काहे व कइखुत्तो?॥११०२॥ कइओणयं कइसिरं कइहिं च आवस्सएहि परिसुद्धं । ___ कइदोसविप्पमुकं किइकम्मं कीस कीरइ वा ॥११०३॥ नयस्तस्य कर्मविनयकर्म, वात विपूर्वस्य विनयनं विनयः, कणीच मापणे' इत्यस्य एरचि
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy