SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयं वन्दनाध्ययनम् साम्प्रतं चतुर्विंशतिस्तवानन्तरं वन्दनाध्ययनं, तस्य चायमभिसम्बन्धः, अनन्तराध्य यने सावद्ययोगविरतिलक्षणसामायिकोपदेष्ट्रणामहंतामुत्कीर्तनं कृतम्, इह त्वहंदुपदिष्टसामायिकगुणवत एव वन्दनलक्षणा प्रतिपत्तिः कार्येति प्रतिपाद्यते, यद्वा-चतुर्विशतिस्तवेऽहंद्गुणोत्कीर्तनरूपाया भक्तेः कर्मक्षय उक्तः, यथोक्तम्-'भत्तीऍ जिणवराणं खिज्जत्ती पुवसंचिआ कम्मत्ति, वन्दनाध्ययनेऽपि कृतिकर्मरूपायाः साधुभक्केस्तद्वतोऽसावेव प्रतिपाद्यते, वक्ष्यति च-"विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स । तित्थगराण य आणा सुयधम्माराहणाऽकिरिया ॥१॥" अथवा सामायिके चारित्रमुपवणित, चतुर्विशतिस्तवे त्वहतां गुणस्तुतिः, सा च दर्शनज्ञानरूपा एवमिदं त्रितयमुक्तम् , अस्य च वितथासेवनायामैहिका-12 मुष्मिकापायपरिजिहीर्षणा गुरोनिवेदनीयं, तच्च वन्दनपूर्वमित्यतस्तन्निरूप्यते, इत्थमनेनानेकप्रकारेण सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे वन्दनाध्ययनमिति (नाम) तत्र वन्दनं निरूप्यते- वदि अभिवादनस्तुत्योः' इत्यस्य करणाधिकरणयोश्चे'(पा०३-३-११७)ति ल्युट्,'युवोरनाकावि'(पा०७-१-१)त्यनादेशः, 'इदितो नुम् धातो रिति (पा०७-१-५८)नुमागमः, ततश्च वन्द्यते-स्तूयतेऽनेन प्रशस्तमनोवाक्कायव्यापारजालेनेति वन्दनम् , अस्याधुना पर्यायशब्दान् प्रतिपादयन्निदं गाथाशकलमाह नियुक्तिकार: वंदणचिइकिइकम्मं पूयाकम्मं च विणयकम्मं च। १ विनयोपचारः मानस्य भजना पूजना गुरुजनस्य । तीर्थकराणां चाज्ञा श्रुतधाराधनाऽक्रिया ॥१॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy