________________
आवश्यकहारिभद्रीया
२चतुर्विशतिस्तवाध्य.
॥५१०॥
LOCALCOCCASSASA R
अस्य व्याख्या-इह प्राकृतशैल्या आषत्वाच्च पञ्चम्यर्थे सप्तमी द्रष्टव्येति, चन्द्रेभ्यो निर्मलतराः, पाठान्तरं वा 'चंदेहि निम्मलयर'त्ति, तत्र सकलकर्ममलापगमाञ्चन्द्रेभ्यो निर्मलतरा इति, तथा आदित्येभ्योऽधिकप्रभासकराः प्रकाशकरा वा, केवलोद्योतेन विश्वप्रकाशनादिति, वक्ष्यति च नियुक्तिकार:-'चंदाइचगहाण मित्यादि, तथा सागरवरादपि गम्भीरतराः, तत्र सागरवरः-स्वयम्भूरमणोऽभिधीयते परीषहोपसर्गाद्यक्षोभ्यत्वात् तस्मादपि गम्भीरतरा इति भावना, सितं-ध्मातमेतेषामिति सिद्धाः, कर्मविगमात् कृतकृत्या इत्यर्थः, सिद्धिं-परमपदप्राप्तिं 'मम दिसंतु'मम प्रयच्छन्त्विति सूत्रगाथार्थः ॥ ७॥ साम्प्रतं सूत्रस्पर्शिकनियुक्त्यैनामेव गाथां लेशतो व्याख्यानयन्नाह
चंदाइचगहाणं पहा पयासेइ परिमिअंखित्तं । केवलिअनाणलंभो लोगालोगं पगासेइ ॥ ११०२॥ व्याख्या-'चन्द्रादित्यग्रहाणा'मिति, अत्र ग्रहा अङ्गारकादयो गृह्यन्ते, 'प्रभा' ज्योत्स्ना 'प्रकाशयति' उद्योतयति परिमितं क्षेत्रमित्यत्र तात्स्थ्यात्तव्यपदेशः, यथा मश्चाः क्रोशन्तीति, क्षेत्रस्यामूर्तत्वेन मूर्तप्रभया प्रकाशनायोगादिति भावना, केवलज्ञानलाभस्तु लोकालोकं 'प्रकाशयति' सर्वधर्मेरुद्योतयतीति गाथार्थः ॥ ११०२ ॥ उक्तोऽनुगमः, नयाः सामायिकवद् द्रष्टव्याः ॥ इति चतुर्विंशतिस्तवटीका समाप्तेति ॥ .. व्याख्यायाध्ययनमिदं प्राप्तं यत्कुशलमिह मया तेन । जन्मप्रवाहहतये कुर्वन्तु जिनस्तवं भव्याः॥१॥
इति श्रीचतुर्विंशतिस्तवाध्ययनं सभाष्यनियुक्तिवृत्ति समाप्तम् ॥
॥५१०॥