________________
स्यादेतद्, एवं सत्याद्यस्य बोधिलाभस्यासम्भव एवोपन्यस्तः, वासनाऽभावात्, न, अनादिसं सारे राधावेधोपमानेनानाभोगत एव कथञ्चित्कर्मक्षयतस्तदवाप्तेरित्येतदावेदितमेवोपोद्घात इत्यलं विस्तरेणेति गाथाद्वयार्थः ॥ १०९९ - ११००॥ तस्मात्सति बोधिलाभे तपस्संयमानुष्ठानपरेण भवितव्यं, न यत्किञ्चि चैत्याद्यालम्बनं चेतस्याधाय प्रमादिना भवितव्यमिति, तपस्संयमोद्यमवतश्चैत्यादिषु कृत्याविराधकत्वात्, तथा चाऽऽह
चेइयकुलगणसंधे आयरिआणं च पवयण सुए अ । सव्वेसुवि तेण कयं तवसंजममुज्जमंतेणं ॥ ११०१ ॥
व्याख्या–चैत्यकुलगणसङ्केषु तथाऽऽचार्याणां च तथा प्रवचनश्रुतयोश्च किं ?, सर्वेष्वपि तेन कृतं, कृत्यमिति गम्यते, केन ?, तपःसंयमोद्यमवता साधुनेति, तत्र चैत्यानि - अर्हत्प्रतिमा लक्षणानि, कुलं - विद्याधरादि, गणः - कुलसमुदायः सङ्घः - समस्त एव साध्वादिसङ्घातः, आचार्याः - प्रतीताः, चशब्दा दुपाध्यायादिपरिग्रहः, भेदाभिधानं च प्राधान्यख्यापनार्थम्, एवमन्यत्रापि द्रष्टव्यं प्रवचनं द्वादशाङ्गमपि सूत्रार्थतदुभयरूपं श्रुतं सूत्रमेव, चशब्दः स्वगतानेक भेदप्रदर्शनार्थः, एतेषु सर्वेष्वपि स्थानेषु तेन कृतं कृत्यं यस्तपःसंयमोद्यमवान् वर्तते, इयमत्र भावना - अयं हि नियमात् ज्ञानदर्शनस - म्पन्नो भवति अयमेव च गुरुलाघवमालोच्य चैत्यादिकृत्येषु सम्यक् प्रवर्तते यथैहिकामुष्मिक गुणवृद्धिर्भवति, विपरीतस्तु कृत्येऽपि प्रवर्तमानोऽप्यविवेकादकृत्यमेव संपादयति, अत्र बहु वक्तव्यमिति गाथार्थः ॥ ११०१ ॥ एवं तावद्गतं सूत्रमूल 'एवं मए अभिथुए 'त्यादि गाथाद्वयं, साम्प्रतं -
चंदेसु निम्मलयरा आइचेसु अहिअं पयासयरा । सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु ॥ ७ ॥