________________
%
आवश्यकहारिभ. द्रीया
२चतुर्विशतिस्तवाध्य.
UCAUSAMUSERSE
॥५०९॥
भत्तीइ जिणवराणं परमाए खीणपिज्जदोसाणं । आरुग्गबोहिलाभं समाहिमरणं च पावंति ॥ १०९८॥ व्याख्या-भक्त्या जिनवराणां, किंविशिष्टया ?-'परमया' प्रधानया भावभक्त्येत्यर्थः, क्षीणप्रेमद्वेषाणां' जिनानां, किम् ?, आरोग्यबोधिलाभं समाधिमरणं च प्राप्नुवन्ति प्राणिन इति, इयमत्र भावना-जिनभक्त्या कर्मक्षयस्ततः सकलकल्याणावाप्तिरिति, अत्र समाधिमरणं च प्राप्नुवन्तीत्येतदारोग्यबोधिलाभस्य हेतुत्वेन द्रष्टव्यं, समाधिमरणप्राप्तौ नियमत एव तत्प्राप्तिरिति गाथार्थः॥ १०९८ ॥ साम्प्रतं बोधिलाभप्राप्तावपि जिनभक्तिमात्रादेव पुनर्बोधिलाभो भविष्यत्येव, किमनेन वर्तमानकालदुष्करेणानुष्ठानेनेत्येवंवादिनमनुष्ठानप्रमादिनं सत्त्वमधिकृत्यौपदेशिकमिदं गाथाद्वयमाहलद्धिल्लिअंच बोहिं अकरितोऽणागयं च पत्थंतो। दच्छिसिजह तं विन्भल!इमंच अन्नंच चुकिहिसि ॥१०९९॥ लडिल्लिअंच बोहिं अकरितोऽणागयं च पत्थंतो । अन्नंदाई बोहिं लम्भिसि कयरेण मुल्लेण? ॥ ११००॥ - व्याख्या-लद्धेल्लियं च'त्ति लब्धां च-प्राप्तां च वर्तमानकाले, कां?, 'बोधि' जिनधर्मप्राप्तिम् , “अकुर्वन्' इति कर्मपराधीनतया सदनुष्ठानेन सफलामकुर्वन् 'अनागतां च' आयत्यामन्यां च प्रार्थयन् , किम् ?, द्रक्ष्यसि यथा त्वं हे विह्वल!जडप्रकृते ! इमां चान्यां बोधिमधिकृत्य, किं ?, 'चुक्तिहिसि' देशीवचनतः भ्रश्यसि, न भविष्यतीत्यर्थः ॥ तथा लब्धां च बोधिमकुर्वन्ननागतां च प्रार्थयन् , अन्नंदाइंति निपातः असूयायाम् , अन्ये तु व्याचक्षते-अन्यामिदानीं बोधि लप्स्यसि, किं ?, कतरेण मूल्येन?, इयमत्र भावना-बोधिलाभे सति तपःसंयमानुष्ठानपरस्य प्रेत्य वासनावशात्तत्तत्प्रवृत्तिरेव बोधिलाभोऽभिधीयते, तदनुष्ठानरहितस्य पुनर्वासनाऽभावात्तत्कथं तत्प्रवृत्तिरिति बोधिलाभानुपपत्तिः,
ASACARALA
CCARE
५०९॥