SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ उच्यते, सत्यमेतत्, नवरं भक्त्या भाषितैषा, अन्यथा नैव 'क्षीणप्रेमद्वेषाः' क्षीणरागद्वेषा इत्यर्थः, 'ददति' प्रयच्छन्ति, किं न प्रयच्छन्ति ?, अत आह-समाधिं च बोधिं चेति गाथार्थः ॥ १०९५ ॥ किं च हिं दावं तं दिनं जिणवरेहिं सवेहिं । दंसणनाणचरित्तस्स एस तिविहस्स उवएसो ॥ १०९६ ॥ व्याख्या - यत्तैर्दातव्यं तद्दत्तं जिनवरैः 'सर्वैः' ऋषभादिभिः पूर्वमेव, किं च दातव्यं ? - दर्शनज्ञान चारित्रस्य सम्बन्धिभूतः आरोग्यादिप्रसाधक एष त्रिविधस्योपदेशः, इह च दर्शनज्ञानचारित्रस्येत्युक्तं, मा भूदिदमेकमेव कस्यचित्सम्प्रत्यय इत्यतस्तद्व्युदासार्थं त्रिविधस्येत्याहेति गाथार्थः ॥ १०९६ ॥ आह-यदि नाम दत्तं ततः किं साम्प्रतमभिलषितार्थप्रसाधनसामर्थ्यरहितास्ते ?, ततश्च तद्भक्तिः कोपयुज्यते इति ?, अत्रोच्यते भत्तीइ जिणवराणं खिजंती पुत्र्वसंचिआ कम्मा । आयरिअनमुक्कारेण विना मंता य सिज्झति ॥ १०९७ ॥ व्याख्या – ‘भक्त्या' अन्तःकरणप्रणिधानलक्षणया 'जिनवराणां' तीर्थकराणां सम्बन्धिन्या हेतुभूतया, किं ?, 'क्षीयन्ते' क्षयं प्रतिपद्यन्ते 'पूर्वसञ्चितानि' अनेकभवोपात्तानि कर्माणि' ज्ञानावरणादीनि इत्थंस्वभावत्वादेव तद्भ केरिति, अस्मि नेवार्थे दृष्टान्तमाह- तथाहि - आचार्यनमस्कारण विद्या मन्त्राश्च सिद्ध्यन्ति, तद्भक्तिमतस्तत्त्वस्य शुभपरिणामत्वात्तत्सिद्धि| प्रतिबन्धक कर्मक्षयादिति भावनीयं, गाथार्थः ॥ १०९७ ॥ अतस्साध्वी तद्भक्तिः, वस्तुतोऽभिलषितार्थप्रसाधकत्वाद्, आरोग्यबोधिलाभादेरपि तन्निर्वर्त्यत्वात्, तथा चाऽऽह * मोक्षमार्गकारणमिति ज्ञानविषयः
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy