________________
आवश्यकहारिभद्रीया
॥५०८॥
SOROSCORRECRUARM
निदानमेतदिति?,-यदुक्तमारोग्यादि ददतु, यदि निदानमलमनेन, सूत्रे प्रतिषिद्धत्वात् , न चेद् व्यर्थमेवोच्चारणमिति,IS
२चतुर्वि|गुरुराह-'विभासा एत्थ काय'त्ति विविधा भाषा विभाषा-विषयविभागव्यवस्थापनेन व्याख्येत्यर्थः, अत्र कर्तव्या, इय-II शतिस्तमिह भावना-नेदं निदानं, कर्मबन्धहेतुत्वाभावात् , तथाहि-मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः, न च वाध्य. मुक्तिप्रार्थनायाममीषामन्यतरस्यापि सम्भव इति, न च व्यर्थमेव तदुच्चारणमिति, ततोऽन्तःकरणशुद्धेरिति गाथार्थः । ॥ १०९४ ॥ आह-न नामेदमित्थं निदानं, तथापि तु दुष्टमेव, कथम् ?, इह स्तुत्या आरोग्यादिप्रदातारः स्युर्ने वा ?, यद्याद्यः पक्षस्तेषां रागादिमत्त्वप्रसङ्गः, अथ चरमः तत आरोग्यादिप्रदानविकला इति जानानस्यापि प्रार्थनायां मृषावाददोषप्रसङ्गः इति, न, इत्थं प्रार्थनायां मृषावादायोगात्, तथा चाहभासा असच्चमोसा नवरं भत्तीहभासिआ एसा । न हखीणपिज्जदोसा दिति समाहिं च बोहिं च ॥१०९५॥
व्याख्या-भाषा असत्यामृषेयं वर्तते, सा चामन्त्रण्यादिभेदादनेकविधा, तथा चोक्तम्-"आमंतणि आणवणी जायणि तह पुच्छणी य पन्नवणी । पच्चक्खाणी भासा भासा इच्छाणुलोमा य ॥१॥ अणभिग्गहिया भासा भासा य अभिग्गहमि बोद्धबा । संसयकरणी भासा वोयड अबोयडा चेव ॥२॥" इत्यादि, तत्रेह याचन्याऽधिकार इति, यतो याञ्चायां वर्तते, यदुत-'आरुग्गवोहिलाभं समाहिवरमुत्तमं दिंतु'त्ति।आह-रागादिरहितत्वादारोग्यादिप्रदानविकलास्ते, ततश्च किमनयेति।
॥५०८॥ . आमन्त्रणी आज्ञापनी याचनी तथा प्रच्छनी च प्रज्ञापनी । प्रत्याख्यानी भाषा भाषेच्छानुलोमा च ॥ १॥ अनभिगृहीता भाषा भाषा चाभिग्रहे बोडण्या। संशयकरणी भाषा व्याकृताऽध्याकृतैव ॥२॥