________________
रेणेति गाथार्थः ॥ ६ ॥ व्याख्यातं लेशत इदं सूत्रगाथाद्वयम् , अधुना सूत्रस्पर्शिकया प्रतन्यते, तत्राभिष्टवकीर्तनकार्थिकानि प्रतिपादयन्नाहथुइथुणणवंदणनमंसणाणि एगद्विआणि एयाणि । कित्तण पसंसणावि अ विणयपणामे अ एगट्ठा ॥ १०९२॥ ___ व्याख्या-स्तुतिः स्तवनं वन्दनं नमस्करणम् एकार्थिकान्येतानि, तथा कीर्तनं प्रशंसैव विनयप्रणामौ च एकार्थिकानीति गाथार्थः ॥ १०९२ ॥ साम्प्रतं यदुक्तम् ‘उत्तमा' इति तद्व्याचिख्यासुरिदमाहमिच्छत्तमोहणिज्जा नाणावरणा चरित्तमोहाओ । तिविहतमा उम्मुक्का तम्हा ते उत्तमा हुँति ॥१०९३ ॥ | व्याख्या-मिथ्यात्वमोहनीयात् तथा ज्ञानावरणात्तथा चारित्रमोहाद् इति, अत्र मिथ्यात्वमोहनीयग्रहणेन दर्शनसप्तकं गृह्यते, तत्रानन्तानुबन्धिनश्चत्वारः कषायास्तथा मिथ्यात्वादित्रयं च, ज्ञानावरणं मतिज्ञानाद्यावरणभेदात् पञ्चविधं, चारित्रमोहनीयं पुनरेकविंशतिभेदं, तच्चानन्तानुबन्धिरहिता द्वादश कषायास्तथा नव नोकषाया इति, अस्मादेव यतस्त्रिविधतमसः, किम् ?-उन्मुक्ताः-प्राबल्येन मुक्ताः, पृथग्भूता इत्यर्थः, तस्मात्ते भगवन्तः, किम् ?, उत्तमा भवन्ति, ऊर्व तमोवृत्तेरिति गाथार्थः॥१०९३॥ साम्प्रतं यदुक्तं 'आरोग्यबोधिलाभ'मित्यादि, अत्र भावार्थमविपरीतमनवगच्छन्नाहआरुग्गबोहिलाभं समाहिवरमुत्तमं च मे दितु । किं नु हु निआणमेअंति?, विभासा इत्थ कायव्वा ॥१०९४॥ ___ व्याख्या-आरोग्याय बोधिलाभः आरोग्यबोधिलाभस्तं, भावार्थः प्रागुक्त एव, तथा समाधिवरमुत्तमं च 'मे' मम ददत्विति यदुक्तम् , अत्र काका पृच्छति-'किं नु हुणियाणमेति तत्र किमिति परप्रश्ने, नु इति वितर्के, हु तत्समर्थने,