________________
आवश्यक-G हारिभद्रीया
२ चतुर्विशतिस्तवाध्य.
॥५०७॥
तद्वत्तीर्थकरान् ये त्रिभुवनभावप्रभावकान् भक्त्या । समुपाश्रिता जनास्ते भवशीतमपास्य यान्ति शिवम् ॥५॥” एतदुक्तं भवति-यद्यपि ते रागादिरहितत्वान्न प्रसीदन्ति तथापि तानुद्दिश्याचिन्त्यचिन्तामणिकल्पानन्तःकरणशुद्ध्या अभिष्टवकर्तृणां तत्पूर्विकैवाभिलषितफलावाप्तिर्भवतीति गाथार्थः॥ तथा
कित्तियवंदियमहिआ जेए लोगस्स उत्तमा सिद्धा । आरुग्गयोहिलाभं समाहिवरमुत्तमं किंतु ॥६॥ - इयमपि सूत्रगाथैव, अस्या व्याख्या-कीर्तिताः-स्वनामभिः प्रोक्ताः वन्दिताः-त्रिविधयोगेन सम्यकूस्तुताः मयेत्यात्मनिर्देशे, महिता इति वा पाठान्तरमिदं च, महिताः-पुष्पादिभिः पूजिताः, क एत इत्यत आह-य एते 'लोकस्य' प्राणिलोकस्य मिथ्यात्वादिकर्ममलकलङ्काभावेनोत्तमाः-प्रधानाः, ऊर्ध्व वा तमस इत्युत्तमसः, 'उत्प्राबल्योर्ध्वगमनोच्छेदनेष्विति वचनात् , प्राकृतशैल्या पुनरुत्तमा उच्यन्ते, "सिद्धा' इति सितं ध्मातमेषामिति सिद्धाः-कृतकृत्या इत्यर्थः, अरोगस्य भाव आरोग्य-सिद्धत्वं तदर्थ बोधिलाभः-प्रेत्य जिनधर्मप्राप्तिर्बोधिलाभोऽभिधीयते तं, स चानिदानो मोक्षायैव प्रशस्यत इति, तदर्थमेव च तावत्किं , तत आह-समाधान-समाधिः, स च द्रव्यभावभेदाद् द्विविधः, तत्र द्रव्यसमाधिर्यदुपयोगस्वास्थ्यं भवति येषां वाऽविरोध इति, भावसमाधिस्तु ज्ञानादिसमाधानमेव, तदुपयोगादेव परमस्वास्थ्ययोगादिति, यतश्चायमित्थं द्विधाऽतो द्रव्यसमाधिव्यवच्छेदार्थमाह-वरं-प्रधानं भावसमाधिमित्यर्थः, असावपि तारतम्यभेदादनेकधैव अत आह-उत्तम-सर्वोत्कृष्टं ददतु-प्रयच्छन्तु, आह-किं तेषां प्रदानसामर्थ्यमस्ति ?,न, किमर्थमेवमभिधीयत इति?, उच्यते, भक्त्या, वक्ष्यति च-'भासा असच्चमोसा' इत्यादि, नवरं तद्भक्त्या स्वयमेव तत्प्राप्तिरुपजायत इति कृतं विस्त
॥५०७॥