________________
व्याख्या-गभगएण भगवया णायकुलं विसेसेण धणेण वड्डियाइयं तेण से णाम कयं वद्धमाणेत्ति, गाथार्थः॥१०९१॥ एवमेतावता ग्रन्थेन तिम्रोऽपि मूलसूत्रगाथा व्याख्याता इति ॥ अधुना सूत्रगाथैवएवं मए अभिथुआ विहुयरयमला पहीणजरमरणा । चउवीसंपि जिणवरा तित्थयरा मे पसीयंतु ॥५॥ | अस्या व्याख्या-'एवम्'अनन्तरोक्तेन प्रकारेण 'मए' इत्यात्मनिर्देशमाह, 'अभिष्टुता' इति आभिमुख्येन स्तुता अभिष्टुता इति, स्वनामभिः कीर्तिता इत्यर्थः, किंविशिष्टास्ते ?-'विधूतरजोमलाः' तत्र रजश्च मलश्च रजोमलौ विधूतौ-प्रकम्पिती अनेकार्थत्वाद्वा अपनीतौ रजोमलौ यैस्ते तथाविधाः, तत्र बध्यमानं कर्म रजो भण्यते पूर्वबद्धं तु मल इति, अथवा बद्धं रजः निकाचितं मलः, अथवेर्यापथं रजः साम्परायिकं मल इति, यत एवैवम्भूता अत एव प्रक्षीणजरामरणाः, कारणा|भावादित्यर्थः, तत्र जरा-वयोहानिलक्षणा मरणं तु-प्राणत्यागलक्षणं, प्रक्षीणे जरामरणे येषां ते तथाविधाश्चतुर्विंशतिरपि, अपिशब्दात्तदन्येऽपि, 'जिनवराः' श्रुतादिजिनप्रधानाः, ते च सामान्यकेवलिनोऽपि भवन्ति अत आह-तीर्थकरा इति, एतत्समानं पूर्वेण, 'मे' मम, किं ?-'प्रसीदन्तु' प्रसादपरा भवन्तु, स्यात्-'क्षीणक्लेशत्वान्न पूजकानां प्रसाददास्ते हि । तच्च न यस्मात्तेन पूज्याः क्लेशक्षयादेव ॥ १॥ यो वस्तुतः प्रसीदति रोषमवश्यं स याति निन्दायाम् । सर्वत्रासमचित्तश्च सर्व|हितदः कथं स भवेत् ? ॥२॥ तीर्थकरास्त्विह यस्माद्रागद्वेषक्षयात्रिलोकविदः । स्वात्मपरतुल्यचित्ताश्चातः सद्भिः सदा पूज्याः॥३॥ शीतार्दितेषु च यथा द्वेषं वह्निन याति रागं वा। नाऽऽह्वयति वा तथाऽपि च तमाश्रिताः स्वेष्टमश्नुवते ॥४॥
गर्भगतेन भगवता ज्ञातकुलं विशेषेण धनेन वर्धितं तेन तस्य नाम कृतं वर्धमान इति ।