SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ असवत्तो होइ कायवो ॥ २॥ प्राग् धर्मद्वारेण श्रुताशातनोक्ता इह तु स्वतन्त्रविषयेति न पुनरुक्तं । श्रुतदेवताया आशा-| तनया, क्रिया पूर्ववत्, आशातना तु श्रुतदेवता न विद्यतेऽकिञ्चित्करी वा, उत्तरं-न ह्यनधिष्ठितो मौनीन्द्रः खल्वागम: अतोऽसावस्ति, न चाकिश्चित्करी, तामालम्ब्य प्रशस्तमनसः कर्मक्षयदर्शनात् । वाचनाचार्यस्याऽऽशातनया, क्रिया पूर्ववत्, तत्र वाचनाचार्यों छुपाध्यायसंदिष्टो य उद्देशादि करोति, आशातना त्वियं-निर्दुःखसुखः प्रभूतान वारान् वन्दनं दापयति, उत्तरं-श्रुतोपचार एषः क इव तस्यात्र दोष इति जं वाइद्धं वच्चामेलियं हीणक्खरियं अच्चक्खरियं पयहीणं विणयहीणं घोसहीणं जोगहीणं सुदिन्नं दुटु पडिच्छियं अकाले कओ सज्झाओ काले न कओसज्झाओ असज्झाए सज्झाइयं सज्झाए न सज्झाइयं तस्स |मिच्छामि दुक्कडं (सूत्रं) | एए चोदस सुत्ता पुबिल्लिया य एगूणवीसंति एए तेत्तीसमासायणसुत्तत्ति । एतानि चतुर्दश सूत्राणि श्रुतक्रियाकालगोचरत्वान्न पुनरुक्तभाञ्जीति, तथा दोषदुष्टपदं श्रुतं यदधीतं, तद्यथा-व्याविद्धं विपर्यस्तरत्नमालावद्, अनेन प्रकारेण याऽऽशातना तया हेतुभूतया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमिति क्रिया, एवमन्यत्रापि योज्या, व्यत्याडितं कोलिकपायसवत्, हीनाक्षरम्-अक्षरन्यूनम्, अत्यक्षरम्-अधिकाक्षरं, पदहीनं-पदेनैवोनं, विनयहीनम्-अकृतोचितविनयं, घोषहीनम्-उदात्तादिघोषरहितं, योगरहितं-सम्यगकृतयोगोपचारं, सुष्ठुदत्तं गुरुणा दुष्ठु प्रतीच्छितं कलुषितान्तरात्मनेति, अकाले कृतः स्वाध्यायो-यो यस्य श्रुतस्य कालिकादेरकाल इति, काले न कृतः स्वाध्यायः-यो यस्याऽऽत्मीयोऽ. १ असपत्नो भवति कर्तव्यः ॥ २ ॥ एतानि चतुर्दश सूत्राणि पूर्वाणि चैकानविंशतिः, एतानि त्रयस्त्रिंशदाशातनासूत्राणि
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy