________________
आवश्यक
हारिभद्रीया
॥६६०॥
गाथात्रयं निगदसिद्धमेव एकोनत्रिंशद्भिः पापश्रुतप्रसङ्गैः क्रिया पूर्ववत्, पापोपादानानि श्रुतानि पापश्रुतानि तेषां प्रसङ्गाः - तथाssसेवनारूपा इति, पापश्रुतानि दर्शयन्नाह सङ्ग्रहणिकारः
अनिमित्तंगाई दिन्युपायंत लिक्खभौमं च । अंगेसरलक्खणैवंजणं च तिविहं पुणोक्तेक्कं ॥ १ ॥ सुतं "वित्त तह तियं च पावसुय अउणतीसविहं । गंधेश्वत्थं धणुवेये संजुत्तं ॥ २ ॥
गाथाद्वयम् अस्य व्याख्या - अष्ट निमित्ताङ्गानि दिव्यं व्यन्तराधट्टट्टहासादिविषयम्, उत्पातं - सहज रुधिरवृष्ट्यादि - विषयम्, अन्तरिक्षं - ग्रहभेदादिविषयं, भौमं - भूमिविकारदर्शनादेवास्मादिदं भवतीत्यादिविषयम्, अङ्गम् - अङ्गविषयं स्वरं - स्वरविषयं, व्यञ्जनं-मपादि तद्विषयं, तथा च- अङ्गादिदर्शनतस्तद्विदो भाविनं सुखादि जानन्त्येव, त्रिविधं पुनरेकैकं दिव्यादि सूत्रं वृत्तिः तथा वार्तिकं च, इत्यनेन भेदेन - दिवाईण सरूवं अंगविवज्जाण होंति सत्तहं । सुत्तं सहस्स लक्खो य वित्ती तह कोडि वक्खाणं ॥ १ ॥ अंगस्स सयसहस्सं सुत्तं वित्तीय कोडि विनेया । वक्खाणं अपरिमियं इय| मेव य वत्तियं जाण ॥ २ ॥ पापश्रुतमेकोनत्रिंशद्विधं कथम् ?, अष्टौ मूलभेदाः सूत्रादिभेदेन त्रिगुणिताश्चतुर्विंशतिः गन्धर्वादिसंयुक्ता एकोनत्रिंशद्भवन्ति, 'वत्थं'ति वास्तुविद्या 'आउ'न्ति वैद्यकं शेषं प्रकटार्थ ॥
१ दिव्यादीनां स्वरूपमङ्गविवर्जितानां भवति सप्तानाम् । सूत्रं सहस्रं लक्षं च वृत्तिस्तथा कोटी व्याख्यानम् ॥ १ ॥ अङ्गस्य शतसहस्रं सूत्रं वृत्तिश्च कोटी विज्ञेया । व्याख्यानमपरिमितं इदमेव वार्त्तिकं जानीहि ॥ २ ॥
४ प्रतिक्र
मणाध्य० २९ पापश्रुतानि
॥६६०॥