________________
सत्यः, हास्यपरित्यागादित्यर्थः, हास्यादनृतमपि ब्रूयात्, अतो हास्यपरित्यागः प्रथमभावना, अनुविचिन्त्य - पर्यालोच्य भाषेत, अन्यथाऽनृतमपि ब्रूयात् द्वितीयभावना, यः क्रोधं लोभं भयमेव वा त्यजेत् स इत्थम्भूतो दीर्घरात्रं - मोक्षं समुपेक्ष्य - सामीप्येन द्रष्टा ( दृष्ट्वा ) 'सिया' स्यात् मुनिरेव मृषां परिवर्जेत सदा, क्रोधादिभ्योऽनृतभाषणादिति भावनात्रयं, गता द्वितीयत्रतभावनाः । तृतीयत्रतभावनाः प्रोच्यन्ते - 'स्वयमेव' आत्मनैव प्रभुं प्रभुसंदिष्टं वाऽधिकृत्य अवग्रहयाच्यायां प्रवर्तते अनुविचिन्त्यान्यथाऽदत्तं गृह्णीयात् प्रथमभावना, 'घडे मइमं निसम्म त्ति तत्रैव तृणाद्यनुज्ञापनायां चेष्टेत मतिमान् निशम्य - आकर्ण्य प्रतिग्रहदातृवचनमन्यथा तददत्तं गृह्णीयात्, परिभोग इति द्वितीया भावना, 'सइ भिक्खु उग्गहं' ति सदा भिक्षुरवग्रहं स्पष्टमर्यादयाऽनुज्ञाप्य भजेत, अन्यथाऽदत्तं संगृह्णीयात्, तृतीया भावना, अनुज्ञाप्य गुरुमन्यं वा भुञ्जीत पानभोजनम्, अन्यथाऽदत्तं गृह्णीयात् चतुर्थी भावना, याचित्वा साधर्मिकाणामवग्रहं स्थानादि कार्यमन्यथा तृतीयप्रतविराधनेति पञ्चमी भावना, उक्तास्तृतीयत्रतभावनाः । साम्प्रतं चतुर्थव्रतभावनाः प्रोच्यन्ते - ' आहारगुत्ते 'त्ति आहारगुप्तः स्यात् नातिमात्रं स्निग्धं वा भुञ्जीत, अन्यथा ब्रह्मव्रतविराधकः स्यात् प्रथमा भावना, अविभूषितात्मा स्याद् - विभूषां न कुर्याद्, अन्यथा ब्रह्मव्रतविराधकः स्यात् द्वितीया भावना, स्त्रियं न निरीक्षेत तदव्यतिरेकादिन्द्रि याणि नाssलोकयेद्, अन्यथा ब्रह्मविराधकः स्यात् तृतीया भावना, 'न संथवेज'त्ति न रूयादिसंसक्तां वसतिं सेवेत, अन्यथा ब्रह्मविराधकः स्यात् चतुर्थी भावना, बुद्धः - अवगततत्त्वः मुनिः - साधुः क्षुद्रकथां न कुर्यात् स्त्रीकथां स्त्रीणां वेति, अन्यथा ब्रह्मविराधकः स्यात् पञ्चमी भावना, 'धम्म (धम्माणु) पेही संघए बंभचेरं 'ति निगदसिद्धम्, उक्ताश्चतुर्थत्र