________________
'मल' त्ति स्वेदवारिसम्पर्कात्कठिनीभूतं रजो मलोऽभिधीयते स वपुषि स्थिरतामितो ग्रीष्मोष्मसन्तापजनितधर्मजलादार्द्रतां गतो दुर्गन्धिर्महान्तमुद्वेगमापादयति, तदपनयनाय न कदाचिदभिलषेत्-अभिलाषं कुर्यात् १८, 'सक्कारपरीसहे 'त्ति सत्कारो - भक्तपानवस्त्रपात्रादीनां परतो लाभः पुरस्कारः - सद्भूतगुणोत्कीर्तनं वन्दनाभ्युत्थानासनप्रदानादिव्यवहारश्च तत्रासत्कारितोऽपुरस्कृतो वा न द्वेषं यायात् १९, 'पण्ण'त्ति प्रज्ञायतेऽनयेति प्रज्ञा - बुद्ध्यतिशयः, तत्प्राप्तौ न गर्वमुद्रहेत् २०, 'अण्णा' ति कर्मविपाकजादज्ञानान्नोद्विजेत २१, 'असंमत्तं'ति असम्यक्त्वपरीपहः, सर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निःसङ्गश्चाहं तथापि धर्माधर्मात्मदेवनारकादिभावान्नेक्षे अतो मृषा समस्तमेतदिति असम्यक्त्वपरीषहः, तत्रैवमालोचयेत्-धर्माधर्मौ पुण्यपापलक्षणौ यदि कर्मरूपौ पुद्गलात्मकौ ततस्तयोः कार्यदर्शनानुमानसमधिगम्यत्वं, अथ क्षमाक्रोधादिक धर्माधर्मौ ततः स्वानुभवत्वादात्मपरिणामरूपत्वात् प्रत्यक्षविरोधः, देवास्त्वत्यन्तसुखास तत्वान्मनुष्यलोके कार्याभावात् दुष्पमानुभावाच्च न दर्शनगोचरमायान्ति, नारकास्तु तीव्रवेदनार्ताः पूर्वकृतकर्मादयनिगडबन्धनवशीकृतत्वादस्वतन्त्राः कथमायान्तीत्येवमालोचयतोऽसम्यक्त्वपरीष हजयो भवति, 'बावीस परीसहत्ति एते द्वाविंशतिपरीषहा इति गाथाद्वयार्थः ॥ त्रयोविंशतिभिः सूत्रकृताध्ययनैः, क्रिया पूर्ववत्, तानि पुनरमूनि -
पुंडरीकरियहणं आहार परिवणैपञ्चक्खाणकिरियों य । अणगौरईनॉलंद सोलसाई च तेवीसं ॥ १ ॥
गाथा निगदसिद्धैव ॥ चतुर्विंशतिभिर्देवैः क्रिया पूर्ववत्, तानुपदर्शयन्नाह -