SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ अलाभ रोग तणफोसा मैलसकारपरीसहा । पैण्णा अण्णाणसंमैत्तं इइ बावीस परीसहा ॥२॥ व्याख्या-क्षुत्परीषहः-क्षुद्धेदनामुदितामशेषवेदनातिशायिनी सम्यग्विषहमाणस्य जठरान्त्रविदाहिनीमागमविहितेनान्धसा शमयतोऽनेषणीयं च परिहरतः क्षुत्परीषहजयो भवति, अनेषणीयग्रहणे तु न विजितः स्यात् क्षुत्परीषहः, १, एवं पिपासापरीषहोऽपि द्रष्टव्यः २, 'सीय'ति शीते महत्यपि पतति जीर्णवसनः परित्राणवर्जितो नाकल्प्यानि वासांसि परिगृह्णीयात् परिभुञ्जीत वा, नापि शीतार्तोऽग्निं ज्वालयेत् अन्यज्वालितं वा नाऽऽसेवयेत् , एवमनुतिष्ठता शीतपरीषहजयः कृतो भवति ३, 'उण्हं' उष्णपरितप्तोऽपि न जलावगाहनस्नानव्यजनवातादि वाञ्छयेत् , नैवातपत्राद्युष्णत्राणायाऽऽददीतेति, उष्णमापतितं सम्यक् सहेत, एवमनुतिष्ठतोष्णपरीषहजयः कृतो भवति ४, 'दंस'त्ति दंशमशकादिभिर्दश्यमानोऽपि न ततः स्थानादपगच्छेत् , न च तदपनयनाथ धूमादिना यतेत, न च व्यजनादिना निवारयेदिति, एवमनुतिष्ठता दंशपरिषहजयः कृतो भवति ५, एवमन्यत्रापि क्रिया योज्या, 'अचेल'त्ति अमहाधनमूल्यानि खण्डितानि जीर्णानि च वासांसि धारयेत् न च तथाविधो दैन्यं गच्छेत् , तथा चागमः-'परिजुण्णेहिं वत्थेहिं, होक्खामित्ति अचेलए। | अदुवा सचेलए होक्खं, इति भिक्खू न चिंतए ॥१॥' इत्यादि ६, 'अरति'त्ति विहरतस्तिष्ठतो वा यद्यरतिरुत्पद्यते तत्रोत्पन्नारतिनाऽपि सम्यग्धर्मारामरतेनैव संसारस्वभावमालोच्य भवितव्यं, 'इत्थीउत्ति न स्त्रीणामङ्गप्रत्यङ्गसंस्थानहसितल|लितनयनविभ्रमादिचेष्टां चिन्तयेत् , न जातुचिच्चक्षुरपि तासु निवेशयेत् मोक्षमार्गार्गलासु कामबुद्ध्येति ८, 'चरिय'त्ति १ परिजीर्णेषु वस्त्रेषु भविष्याम्यचेलकः । अथवा सचेलको भविष्यामीति भिक्षुर्न चिन्तयेत् ॥ १॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy