SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया प्रतिक्रममणाध्य० ॥६४६॥ OCOCCORDIALOCAL स्निग्धमित्यर्थः, नातिमात्राहारोपभोगः कार्यः, न विभूषा कार्या, एता नव ब्रह्मचर्यगुप्तय इति गाथार्थः ॥ श्रमणःप्राग्निरूपितशब्दार्थस्तस्य धर्म:-क्षान्त्यादिलक्षणस्तस्मिन् दशविधे-दशप्रकारे श्रमणधर्मे सति तद्विषये वा प्रतिषिद्धकरणादिना यो मयाऽतिचारः कृत इति भावना । दशविधधर्मस्वरूपप्रतिपादनायाह सङ्ग्रहणिकार: खंती य मद्दवज्जव मुत्ती तव संजमे य बोद्धचे । सच्चं सोयं आकिंचणं च बभं च जइधम्मो ॥१॥ क्षान्तिः श्रमणधर्मः, क्रोधविवेक इत्यर्थः, चशब्दस्य व्यवहितः सम्बन्धः, मृदोर्भावः मार्दवं मानपरित्यागेन वर्तनमित्यर्थः, तथा ऋजुभाव आर्जवं-मायापरित्यागः, मोचनं मुक्तिः, लोभपरित्याग इति भावना, तपो द्वादशविधमनशनादि, संयमश्चाश्रवविरतिलक्षणः 'बोद्धव्यः' विज्ञेयः श्रमणधर्मतया, सत्यं प्रतीतं, शौचं संयम प्रति निरुपलेपता, आकिञ्चन्यं च, कनकादिरहिततेत्यर्थः, ब्रह्मचर्य च, एष यतिधर्मः, अयं गाथाक्षरार्थः ॥ अन्ये त्वेवं वदन्ति-खंती मुत्ती अजव मद्दव तह लाघवे तवे चेव । संयम चियागऽकिंचण बोद्धचे बंभचेरे य ॥१॥ तत्र लाघवम्-अप्रतिबद्धता, त्यागःसंयतेभ्यो वस्त्रादिदानं, शेषं प्राग्वत् , गुप्त्यादीनां चाऽऽद्यदण्डकोकानामपीहोपन्यासोऽन्यविशेषाभिधानाददुष्ट इति ॥ एकादशभिरुपासकप्रतिमाभिः करणभूताभिर्योऽतिचार इति, उपासकाः-श्रावकास्तेषां प्रतिमाः-प्रतिज्ञा दर्शनादिगुणयुक्ताः कार्या इत्यर्थः, उपासकप्रतिमाः, ताश्चैता एकादशेति दसणवयसामाइय पोसहपढिमा अबंभ सचित्ते । आरंभपेसउद्दिट वजए समणभूए य॥1॥ ॥६४६॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy